________________ 140 श्री औपपातिकसूत्रम् भावोऽस्तिभावस्तं, नास्तीतिविवक्षानिबन्धनभूतो भावो नास्तिभावोऽतस्तं, 'सुचिण्णा कम्म'त्ति सुचरितानि तपःप्रभृतीनि कर्माणि-क्रिया: 'सुचिन्नफल 'त्ति सुचरितहेतुकत्वात् पुण्यकर्मबन्धादि तदेव फलं येषां तानि तथा, शुभफलानीत्यर्थः, न निष्फलानि नाप्यशुभफलानीति हृदयम्, एवं विपर्ययवाक्यमपि, ततश्च ‘फुसइ पुन्नपावे' बध्नाति जीव: शुभाशुभं कर्म सुचरितेतरक्रियाभिः, तत: ‘पच्चायंति'त्ति जीवाः प्रत्याजायन्ते-उत्पद्यन्ते, न पुनः "भस्मीभूतस्य शान्तस्य, पुनरागमनं कुतः ?" इत्येतदेव नास्तिकवचनं सत्यं, ततश्चोत्पत्तौ सत्यां 'सफले कल्लाणपावए' सौभाग्यादीतरनिबन्धनत्वात् फलवच्छुभाशुभं कर्मेति / / 71 / / ___72 - धम्ममाइक्खइ इणमेव निग्गंथे पावयणे सच्चे अणुत्तरे केवले पडिपुन्ने संसुद्धे णेयाउए सल्लगत्तणे सिद्धिमग्गे मुत्तिमग्गे निव्वाणमग्गे निज्जाणमग्गे अवितहमविसंधि सव्वदुक्खपहीणमग्गे इहट्ठिया जीवा सिझंति बुझंति मुच्चंति परिणेव्वायंति सव्वदुक्खाणमंतं करेंति / ___[72] प्रकारान्तरेण भगवतो धर्मप्ररूपणां दर्शयन्नाह-'धम्ममाइक्खइ इत्यादि पडिरूवे इत्येतदन्तम्', इदं च व्यक्तं, नवरम् ‘इदमेव' प्रत्यक्षं 'निग्गंथे पावयणे' नैर्ग्रन्थं प्रवचनं-. जिनशासनं 'सच्चे' सद्भयो हितम् 'अणुत्तरे' नेतः / प्रधानतरमन्यदस्तीत्यर्थः 'केवले' अद्वितीयं केवलि- प्रणीतं वा अनन्तं वा-अनन्तार्थविषयत्वात् 'पडिपुण्णे' प्रतिपूर्णमल्पग्रन्थत्वादिभिः प्रवचनगुणैः ‘संसुद्धे' कषादिभिः शुद्धं सुवर्णमिव निर्दोषं गुणपूर्णत्वात् ‘णेयाउए' नैयायिक-न्यायानुगतं प्रमाणाबाधितमित्यर्थः, सल्लगत्तणे' मायादिशल्यकर्तनं, तद्भावितानां हि भावशल्यानि व्यवच्छेदमायान्तीति 'सिद्धिमग्गे' निष्ठितार्थत्वोपायः 'मुत्तिमग्गे' मुक्ते:-सकलकर्मवियोगस्य हेतुः अथवा मुक्ति:-निर्लोभता मार्गो यस्य प्राप्तेः तन्मुक्तिमार्ग 'निज्जाणमग्गे' निर्याणस्य-अनावृत्तिकगमनस्य मार्गो-हेतुः, 'निव्वाणमग्गे' निर्वाणस्य-सकलसन्तापरहितत्वस्य पन्थाः 'अवितहं' सद्भूतार्थं 'अविसंधि' अविरुद्धपूर्वापरघट्टनं 'सव्वदुक्खप्पहीणमग्गे' सकलदुःखप्रक्षयस्य पन्थाः अथवा सर्वाणि दुःखानि प्रहीणानि यत्र सन्ति स तथा स मार्गः-शुद्धिर्यत्र तत्तथा, अत एव 'इहट्ठिया जीवा सिझंति' विशेषतः सिद्धिगमनयोग्या भवन्ति अणिमादिमहासिद्धिप्राप्ता वा भवन्ति ‘बुझंति' केवलज्ञानप्राप्त्या 'मुच्चंति' भवोपग्राहिकर्मांशापगमात् 'परिनिव्वायंति' 1. मु. J // सुरचितानि - खं. // 2. परिणेव्वंति - पु. प्रे. / / 3. खं. / सल्लकत्तणे - मु. // 4. प्राप्तौ - खं. J // 5. परिनिव्वंति - खं.J ||