________________ सूत्र -63 ] कूणिकनृपवर्णनम् 117 __ अधिकृतवाचनायां तु चतुश्चामरवालवीजिताङ्ग इति व्यक्तं, वाचनान्तरे तु 'चउहि-यपवर-गिरिकुहर-विचरण-सुमुइय-निरुवहय-चमरपच्छिमसरीर-संजायसंगयाहिं', चउहि यत्ति-चतसृभिः, 'ताहिय'त्ति क्वचित् तत्र ताभिश्च तथाविधाभिर्वर्णकवर्णितस्वरूपाभिः चामराभिः कलित इति योगः, इह च चामरशब्दस्य नपुंसकलिङ्गत्वेऽपि स्त्रीलिङ्गनिर्देशो लोकरूढेः छान्दसत्वाद्वा न दुष्टः, प्रवरं यद्गिरिकुहरं-पर्वतनिकुञ्जस्तत्र यद्विचरणं-सञ्चरणं तेन सुमुदिताअतिहष्टा निरुपहताश्च-उपघातरहिता ये चमरा:- आटव्यगोविशेषास्तेषां यत्पश्चिमशरीरं-देहस्य पश्चिमो भागस्तत्र याः सञ्जाता-उत्पन्नाः सङ्गताश्च-अनवद्यास्तास्तथा ताभिः, 'अमलियसियकमल-विमलुज्जलिय-रययगिरिसिहर-विमल-ससिकिरण-सरिसकलधोयनिम्मलाहिं' अमलितम्-अमदितं यत्सितकमलं-पुण्डरीकं तथा विमलम्-निर्मलम् उज्ज्वलितम्उद्दीप्तं यद्रजतगिरिशिखरं-वैताढ्यगिरिकूटं तथा विमला ये शशिकिरणास्तत्सदृश्यो यास्तास्तथा ताश्च ताः कलधौतनिर्मलाश्च-रूप्यवदुज्ज्वला इति समासोऽतस्ताभिः, ‘पवणाहय-चवलललिय-तरंगहत्थ-नच्चंत-वीइपसरिय-खीरोदग-पवरसागरुप्पूर-चंचलाहिं' पवनाहता:वायुप्रेरिताश्चपला:-तरला ललिता-मनोहरास्तरङ्गहस्ताः-प्रतनुकल्लोलपाणयस्तैः नृत्यन्निव नृत्यन् यः स तथा वीचयो-महाकल्लोलास्तैः प्रसृतश्च-विस्तारमुपगतः स चासौ क्षीरोदकश्च-क्षीराकारजल: स चासौ प्रवरसागरश्चेति कर्मधारयस्तस्य य उत्पूर:-प्रकृष्टः प्रवाहः स तथा तद्वच्चञ्चला यास्तास्तथा ताभिः, 'माणससर-परिसरपरिचियावास-विसयवेसाहिं,' इह हंसवधूभिरिव कलित इत्यनेन सम्बन्धः, मानसाभिधानसरसः परिसरे-प्रान्ते परिचितः-पुनः पुनः कृत आवासोनिवासो यकाभिस्तास्तथा ताश्च ता विशदवेषाश्च-धवलाकारा इति कर्मधारयोऽतस्ताभिः, 'कणगगिरिसिहर-संसियाहिं' कनकगिरे:-मेरोरन्यस्य वा यच्छिखरं तत्संसृता यास्तास्तथा ताभिः, उप्पइय-तुरिय-चवल-जइण-सिग्घवेगाहिं हंसवधूयाहिं चेव कलिए / नाणामणिकणग-रयण-विमलमहरिह-तवणिज्जुज्जल-विचित्तदंडाहिं चिल्लियाहिं णरवति-सिरिसमुदय-पगासणकरीहिं वरपट्टणुग्गताहिं समिद्धरायकुल-सेवियाहिं कालागरु-पवरकुंदुरुक्क-तुरुक्क-वरवण्ण-वास-गंधुद्धयाभिरामाहिं सललियाहिं उभओ पासंपि उक्खिप्पमाणाहिं चामराहिं सुहसीतलवातवीतियंगे A] मंगलजयसद्दकयालोए अणेगगणणायक दंडनायक राईसर १.J०संगहाहि-खं.॥