________________ 116 श्री औपपातिकसूत्रम् मिसिमिसिंत-मणिरयण-सूरमंडल-वितिमिरकर-णिग्गयग्गपडिहयपुणरविपच्चावडंतचंचल-मिरिइ-कवयं विणिमुयंतेणं सपडिदंडेणं धरिज्जमाणेणं आयवत्तेणं विरायंते / सुखहेतुः ऋतुसुखा शिवा-निरुपद्रवा या छाया-आतपवारणलक्षणा तया समनुबद्धम्अनवच्छिन्नं यत्तत्तथा तेन, 'वेरुलियदंडसज्जिएणं'ति वैडूर्यमयदण्डे सज्जितं-वितानितं यत्तत्तथा तेन, 'वइरामय-वत्थि-निउण-जोइय-अट्ठसहस्स-वरकंचणसलाग-निम्मिएणं' वज्रमय्यां वस्तौ-शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिता:-सम्बन्धिताः अट्ठसहस्सत्ति-अष्टोत्तरसहस्रसङ्ख्याः या वरकाञ्चनशलाकास्ताभिनिर्मितं यत्तत्तथा तेन, 'सुनिम्मल-रयय-सुच्छएणं'ति सुनिर्मलो रजतस्य सम्बन्धी सुच्छदः-शोभनः प्रच्छादनपटो यत्र तत्तथा तेन, 'निउणोविय-मिसिमिसिंत-मणिरयण-सूरमंडल-वितिमिरकर-निग्गयग्गपडिहय-पुणरविपच्चावडंतचंचल-मिरिइ-कवयं विणिमुयंतेणं' निपुणेन शिल्पिना निपुणं वा यथा भवति एवम् उवियत्ति-परिकर्मितानि मिसिमिसिंतत्ति-देदीप्यमानानि यानि मणिरत्नानि तानि तथा सूरमण्डलाद्-आदित्यबिम्बात् ये वितिमिरा-हतान्धकाराः करा:किरणा 'निर्गतास्तेषां यान्यग्राणि तानि प्रतिहतानि-निराकृतानि पुनरपि प्रत्यापतन्ति' चप्रतिवर्तमानानि यस्माच्चञ्चलमरीचिकवचात्तत्तथा, अथवा सूरमण्डलाद् वितिमिरकराणां निर्गतानामग्रैः प्रतिहतं पुनरपि प्रत्यापतच्च तच्च तच्चञ्चलमरीचिकवचं च-चपलरश्मिपरिकर इति समासः, निपुणोपितमिसिमिसायमानमणिरत्नानां यत्सूरमण्डलवितिमिरकरविनिर्गताग्रप्रतिहतं पुनरपि प्रत्यापतच्चञ्चलमरीचिकवचं यत्तत्तथा तद्विनिर्मुञ्चता-विसृजता, 'सपडिदंडेणं' अतिभारिकतया एकदण्डेन दुर्वहत्वात्सप्रतिदण्डेन, 'धरिज्जमाणेणं आयवत्तेणं विरायते' इति व्यक्तम् / / चंउहि य पवर-गिरिकुहर-विचरण-सुमुइय-निरुवहय-चमरपच्छिमसरीर[ संजाय ] संगताहि अमलित-सितकमल-विमलुज्जलित-रयतगिरिसिहरविमल-ससिकिरण-सरिस-कलधोतनिम्मलाहिं पवणाहय-चवल-ललियतरंगहत्थ-नच्चंत-वीइपसरित-खीरोदग-पवरसागरुप्पूर-चंचलाहिं माणससरपरिसरपरिचियावास-विसयवेगा( सा )हिं कणगगिरिसिहर-संसियाहिं ओवइय 1. विनिर्गता०J / विनिर्मिता० खं. // 2. Joन्ति निवर्तमा० खं.। 3. ताहि तपवर०