________________ सूत्र -63] कूणिकनृपवर्णनम् 115 ___ 'कप्परुक्खए चेव'त्ति कल्पवृक्ष इव 'अलंकियविभूसिए'त्ति अलङ्कतो-मुकुटादिभिः विभूषितो-वस्त्रादिभिरिति, 'सकोरंटमल्लदामेणं'ति सकोरण्टानि-कोरण्टकाभिधानकुसुमस्तबकवन्ति माल्यदामानि-पुष्पस्रजो यत्र तत्तथा 'तेन // वाचनान्तरे पुनश्छत्रवर्णक एवं दृश्यते-'अब्भपडल-पिंगलुज्जलेण' अभ्रपटलमिवमेघवृन्दमिव बृहच्छायाहेतुत्वात् अभ्रपटलं पिङ्गलं-कपिशं सुवर्णकम्बिकानिर्मितत्वात् उज्ज्वलं -निर्मलं यत्तत्तथा, अथवा अभ्रम्-अभ्रकं पृथिवीकायपरिणामविशेषस्तत्पटलमिव पिङ्गलं च उज्ज्वलं च यत्तत्तथा तेन, 'अविरल-सम-सहिय-चंदमंडल-समप्पभेणं' अविरलं घनशलाकावत्त्वेन समं तुल्यशलाकायोगेन सहियत्ति-संहतमनिम्नोन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभं च यद्दीप्त्या तत्तथा तेन, 'मंगल-सयभत्ति-छेयचित्तिय-खिखिणिमणिहेमजालविरइयपरिगय-पेरंत-कणगघंटिय-पयलियर्किणिकिणित-सुइसुहसुमहुरसद्दाल-सोहिएणं' मङ्गलाभिः-'माङ्गल्याभिः शतभक्तिभिः- शतसङ्ख्यविच्छित्तिभिः छेकेन-निपुणेन शिल्पिना चित्रितं यत्तत्तथा, किङ्किणीभि:-क्षुद्रघण्टिकाभिः मणिहेमजालेन च-रत्नकनकजालेन विरचितेन-कृतेन विशिष्टरतिदेन वा परिगतं-परिवेष्टितं यत्तत्तथा, पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिः प्रचलिताभिः किणिकिणायमानाभिः श्रुतिसुखसुमधुरशब्दवतीभिश्च, आलप्रत्ययस्य मत्वर्थीयत्वात्, शोभितं यत्तत्तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तेन, सपयर-वरमुत्तदामलंबंत-भूसणेणं' सप्रतराणि-आभरणविशेषयुक्तानि यानि वरमुक्तादामानि-प्रवरमुक्ताफलमाला: लंबंतत्ति-प्रलम्बमानानि तानि भूषणानि यस्य तत्तथा तेन, 'नरिंदवामप्पमाणरुंदपरिमंडलेणं' नरेन्द्रस्य-तस्यैव राज्ञो वामप्रमाणेन-प्रसारितभुजयुगलमानेन रुन्द-विस्तीर्णं परिमण्डलं-वृत्तभावो यस्य स तत्तथा तेन, 'सीयायव-वायवरिस-विसदोस-नासणेण' शीतातप-वात-वृष्टि-विषजन्यदोषाणां शीतादिलक्षण-दोषाणां वा नाशनं यत्तत्तथा तेन 'तम-रयमलबहलपडलधाडणप्पभाकरेण' तमः-अन्धकारं रजोरेणुः मल:-प्रतीतः एषां बहलं-घनं यत्पटलं-वृन्दं तस्य धाडनी-नाशनी या प्रभाकान्तिस्तत्करणशीलं यत्तत्तथा तेन, अथवा-रजोमलतमोबहलपटलस्य धाडने प्रभाकर इव-दिवाकर इव यत्तत्तथा, 'उदुसुह-सिवच्छाय-समणुबद्धेणं' ऋतौ-कालविशेषे सुखासमणुबद्धणं वेरुलियदंड-सज्जिएणं वइरामय-वस्थि-निउण-जोइतअट्ठसहस्स-वरकंचणसलाग-निम्मिएणं सुनिम्मल-रयत-सुच्छएणं निउणोवित१. तेन- B खं. J नास्ति / / 2. J / किंकिणिकिणिकिणंत० खं. // 3. मङ्ग० Jखं. // 4. खं. / शतसङ्ख्या० मु. JII 5. B खं. JI विचित्रितं-मु. / / 6. B खं. / सप्पय० मु. / / 7. वर० BJ नास्ति / / 8. JI Oपटल० खं. / ०पडण० मु. // 9. ध्राडनी-BJI