________________ 114 श्री औपपातिकसूत्रम् इत्यादि प्राग्वत्, 'पिणद्ध-गेवेज्जग-अंगुलिज्जग-ललियंगय-ललियकयाभरणे' पिनद्धानि-बद्धानि ग्रीवादिषु ग्रैवेयकाङ्गलीयकानि-ग्रीवाभरणाङ्गुल्याभरणानि येन स तथा, ललिताङ्गके-ललितशरीरे कृतानि-विन्यस्तानि ललिताभरणानि तदन्यानि येन स तथा, ततः कर्मधारयः, अथवा पिनद्धानि-ग्रैवेयकाङ्गुलीयकानि ललिताङ्गवदेव कचाभरणानि चकेशाभरणानि पुष्पादीनि येन स तथा, 'वरकडग-तुडियथंभियभुए' वरकटकतुटिकै:प्रधानहस्ताभरणबाह्वाभरणविशेषैर्बहुत्वात्तेषां तैः स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, 'अहियरूवसस्सिरीए' अधिकरूपेण सश्रीकः-सशोभो यः स तथा, 'मुद्रिकापिङ्गला गुलीक' इति क्वचिन्न दृश्यते, 'कुण्डलोद्योतिताननो मुकुटदीप्तशिरस्कः' इति प्रतीतं, ''हारोत्थय-सुकय-रइय-वच्छे' हारावस्तृतेन-हारावच्छादनेन सुष्ठ कृतरतिकं वक्ष-उरो यस्य स तथा, 'पालब-पलंबमाण-पड-सुकयउत्तरिज्जे' प्रलम्बेन-दीर्पण प्रलम्बमानेन च-झुम्बमानेन पटेन सुष्ठ कृतमुत्तरीयम्-उत्तरासङ्गो येन स तथा, 'नाणामणिकणगरयणविमल-महरिहनिउणोवियमिसिमिसंतविरइयसुसिलिट्ठविसिट्ठलट्ठआविद्धवीरवलए' नानामणिकनकरत्नैर्विमलैर्महालै निपुणेन शिल्पिना ओवियत्ति-परिकर्मितैः मिसिमिसिंतत्ति-देदीप्यमानैविरचितानि निर्मितानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानि अन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणि आविद्धानि-परिहितानि वीरवलयानि वरवलयानि वा येन स तथा, सुभटो हि यदि क्वचिदन्योऽप्यस्ति वीरस्तदाऽसौ ,मां विजित्याऽऽमोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि कटकानि परिदधाति तानि वीरवलयानीत्युच्यन्ते / सुसिलिट्ठ-विसिट्ठ-लट्ठ-आविद्ध-वीरवलए / किं बहुणा ? कप्परुक्खए चेव अलंकियविभूसिए णरवई [A अब्भपडल-पिंगलुज्जलेण य अविरल-समसहिय-चंदमंडल-समप्पभेण मंगल-सयभत्ति-छेय-चित्तित-खिखिणिमणिहेमजालविरइय-परिगत-पेरंत-कणगघंटिय-पयलिय-किणिकिणित - सुतिसुहसुमहुरसद्दाल-सोभिएणं सपयर-वरमुत्तदाम-लंबंत-भूसणेणं नरिंदवामप्पमाण-रुंद-परिमंडलेणं सीतातव-वात-वरिस-विसदोस-णासणेणं तम-रय-मल-बहल-पडल-धाडण-प्पभाकरेणं उदुसुह-सिव-च्छाय१. BJ / ललितकचा०।। 2. BJ / मनोज्ञकेशा० मु. // 3. B खं. J / क्वचिदृश्यते-मु. // 4. हारोच्छइय० BJ खं.॥ 5. B मिसमिसिंत० खं. मिसिमिसंत०मु. / / 6. AA चिह्नद्वयमध्यवर्तिपाठः पु.प्रे. अस्ति मु. नास्ति / वृत्तौ वाचनान्तरेण दर्शितोऽस्ति / / प्रतौ-णरवई साकारं मल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामरवालविजियागा मंगल० इति पाठः // 7. सेयतर / पु.प्रे॥