________________ सूत्र - 52 ] समवसरणगमनविधि: 103 संलीनीकृतं पाणिपादं यैस्ते तथा, अत एव 'अंजलिमउलियहत्था' अञ्जलिनाअञ्जलिरूपतया मुकुलितौ-मुकुलाकारौ कृतौ हस्तौ यैस्ते तथा, वाचिकपर्युपासनामाह'एवमेयं भंते 'त्ति एवमेतद्भदन्त!-भट्टारकेति सामान्यतः ‘अवितहमेय'ति विशेषतः, अत एव 'असंदिद्धमेयं 'ति शङ्काया अविषय इत्यर्थः, अत एव 'इच्छियमेयं 'ति इष्टमस्माकमेतत्, अत एव 'पडिच्छियमेयंति भगवन्मुखात् पतत् प्रतीप्सितमागृहीतमेतत्, इह च किञ्चिदिष्टमेव दृष्टमन्यत् प्रतीप्सितमेवेत्यत उच्यते-'इच्छियपडिच्छियमेयं 'ति, 'सच्चे णं एस अट्टे प्राणिहितोऽयमर्थ इति / 'माणसियाए' 'तच्चित्त'त्ति तस्मिन् भगवद्वचने चित्तं-भावमनो येषां ते तच्चित्ताः, सामान्योपयोगापेक्षया वा तच्चित्ताः, 'तम्मण'त्ति तन्मनसो द्रव्यमन: प्रतीत्य विशेषोपयोगं वा, 'तल्लेस्स'त्ति तल्लेश्या: भगवद्वचनगतशुभात्मपरिणामविशेषाः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः, तदाह "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः / / स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते // 1 // " 'तयज्झवसिय'त्ति इहाध्यवंसायः अध्यवसितं तच्चित्तत्वादिभावयुक्तानां सतां तस्मिन्भगवद्वचने एवाध्यवसितं क्रियासम्पादनविषयं येषां ते तदध्यवसिताः, 'तत्तिव्वज्झवसाण'त्ति तस्मिन्नेव-भगवद्वचने तीव्रमध्यवसानं-श्रवणविधिक्रियाप्रयत्नविशेषरूपं येषां ते तथा, 'तदप्पियकरण'त्ति तस्मिन्-भगवत्यर्पितानि करणानि-इन्द्रियाणि शब्दरूपादिषु श्रोत्रचक्षुरादीनि यैस्ते तदर्पितकरणाः, 'तयट्टोवउत्त'त्ति तस्य-भगवद्वचनस्य योऽर्थस्तत्रोपयुक्ता ये ते तदर्थोपयुक्ताः, 'तब्भावणाभाविय'त्ति तेन-भगवद्वचनेन तदर्थेन वा यका भावना-वासना प्राक्तनमुहूर्ते तया भाविता-वासिता न वासनान्तरमुपगता ये ते तद्भावनाभाविताः, अत एव 'एगमण'त्ति अद्वितीयमनसः, अतिप्रशस्ततया प्रधानमनस इत्यर्थः / 'अविमण'त्ति अशून्यमनसः, अदीनमनसो वा प्रमुदितत्वात्, अणन्नमणत्ति भगवन्मनस इत्यर्थः, किमुक्तं भवति ?-'जिणवयणधम्माणुरागरत्तमणा' जिनवचने जिनवदने वा धर्मानुरागेण रक्तं मनो येषां ते तथा, एकाथिकानि वैतानि तन्मनःप्रभृतीनि सर्वाणि पदानि तदेकाग्रताप्रकर्षप्रतिपादनार्थानीति, 'वियसिय-वरकमल-नयण-वयण'त्ति विकसितानि वरकमलानीव नयनवदनानि येषां ते तथा पर्युपासत इति // 52 / /