________________ 97 सूत्र - 52] चंपायां प्रभुवीरागमने जनवादः सिङ्घाटकाभिधानफलविशेषाकारं स्थानं त्रिकोणमित्यर्थः त्रिकं-यत्र स्थाने रथ्यात्रयमीलको भवति, चतुष्कं-यत्र रथ्याचतुष्कमीलकः स्यात्, चत्वरं-यत्र बहवो मार्गा मिलन्ति, चतुर्मुखं-तथाविधदेवकुलादि, महापथो-राजमार्गः, पन्था-रथ्यामात्रं, 'महया जनसद्दे इ व'त्ति महान् जनशब्द:-परस्पराऽऽलापादिरूपः इकारो वाक्यालङ्कारार्थो वाशब्दः पदान्तरापेक्षया समुच्चयार्थः, अथवा 'सद्देइ वत्ति इह सन्धिप्रयोगादितिशब्दो द्रष्टव्यः, स चोपप्रदर्शने, ततश्च यत्र महान् जनशब्दः इति तद्वस्तु, क्वचित् 'बहुजणसद्दे इ वत्ति पाठो व्यक्तश्च, यत्र च जनव्यूह इति वा-लोकसमूहः, परस्परेण वा पदार्थानां विशेषेणोहनं वर्तत इत्यर्थः, एवं सर्वत्र, क्वचित्पठ्यते-'जणवाए इ वा जणुल्लावे इ वा' इति तत्र जनवादोजनानां परस्परेण वस्तुविचारणम् उल्लापस्तु-तेषामेव काक्वा वर्णनम्, आह च '" स्यात्सम्भाषणमालापः, प्रलापोऽनर्थकं वचः / काक्वा वर्णनमुल्लापः, संलापो भाषणं मिथः // 1 // " एवं बोल:-अव्यक्तवर्णो ध्वनिः, कलकलः-स एवोपलभ्यमानवर्णविभागः, ऊर्मिः-सम्बाधः उत्कलिका-लघुतरः समुदाय एव, सन्निपातः-अपरापरस्थानेभ्यो जनानामेकत्र मीलनमिति, "एव'मिति वक्ष्यमाणप्रकारं वस्तु 'आइक्खइ'त्ति, आख्याति सामान्येन 'भासइ'त्ति भाषते विशेषतः, एतदेवार्थद्वयं पदद्वयेनाह-'प्रज्ञापयति प्ररूपयति चे'ति, अथवा आख्यातिसामान्यतः, भाषते-विशेषतः, प्रज्ञापयति-व्यक्तपर्यायवचनतः, प्ररूपयति-उपपत्तितः, ‘इह आगए'त्ति चम्पायाम् इह संपत्ते 'त्ति पूर्णभद्रे इह समोसढे 'त्ति साधूचितावग्रहे, एतदेवाह'इह चंपाए' इत्यादि 'अहापडिरूवं'ति यथाप्रतिरूपम् उचितमित्यर्थः / ___तं महप्फलं खलु देवाणुप्पिया तहारूवाणं अरहंताणं भगवंताणं नामगोत्तस्स वि सवणयाए किमंग पुण अभिगमण-वंदण-नमंसणपडिपुच्छण-पज्जुवासणयाए ? एगस्स वि आरियस्स धम्मियस्स सुवयणस्स सवणयाए, किमंग पुण विपुलस्स अट्ठस्स गहणताए ? तं गच्छामो णं देवाणुप्पिया समणं भगवं महावीरं वंदामो नमसामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पज्जुवासामो / एतं णे पेच्चभवे य हियाए सुहाए खमाए नीस्सेयसाए अणुगामियत्ताए भविस्सइ त्ति कट्ट बहवे 1. आयरियस्स J पु प्रे.. // 2. B / इहभवे परभवे-पुप्रे.॥ 3. कटु तए णं चंपाए नयरीए बहवे-पुप्रे. // श्री औप. 13