________________ श्री औपपातिकसूत्रम् ___पुस्तकान्तरे देवीवर्णको दृश्यते, स चैवम्-'तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अच्छरगणसंघाया अंतियं पाउब्भवित्था, ताओ णं अच्छराओ धंत-धोय-कणग-रुयगसरिसप्पभाओ' ध्मातम्-अग्निना तापितं धौतं-जलेन क्षालितं यत्कनकं तस्य यो रुचको-वणेस्तत्सदृशप्रभाः गौराङ्गय इत्यर्थः, 'समइक्कंता य बालभावं'ति अतिक्रान्ता इव शिशुत्वं, मध्यम-जरठवयोविरहिताः, नवयौवना इवेत्यर्थः, 'अणइवरसोमचारुरूवा' अनतिवरम्-अविद्यमानहासतया प्रधानं न विद्यते अतिवरं यस्मात्तदनतिवरमिति वा सौम्यं-नीरोगं चारु-शोभनं रूपं यासां तास्तथा, 'निरुवहयसरसजोव्वण-कक्कसतरुणवयभावमुवगयाओ' निरुपहतं-रोगादिना अबाधितं सरसं च शृङ्गाररसोपेतं निरुपहतो वा स्वो रसो यत्र तत्तथाविधं यौवनं तथा कर्कशः-अश्लथाङ्गतया यस्तरुणवयोभावस्तारुण्यं तं चोपगता यास्तास्तथा, इह च यौवन-तरुणभावयोर्यद्यप्येकार्थता तथापि सरसत्वा-ऽश्लथाङ्गत्वलक्षणयोर्मन:-शरीराश्रितयोः प्रधानतया विवक्षितयोधर्मयोराधारतया भेदेन विवक्षणान्न पौनरुक्त्यमिति, 'निच्चमवट्ठिय-सहावा' न जरां प्राप्नुवन्तीत्यर्थः, 'सव्वंगसुंदरीओ'त्ति व्यक्तम् 'इच्छियनेवत्थरइयरमणिज्जगहियवेसा' इष्टवस्त्राभरणादिरूपनेपथ्यस्य रचितेन-रचनेन रतिदो वा अत एव रमणीयो गृहीत:-आत्तो गहियवेसा किं ते हारद्धहारपाउत्तरयणकुंडल-वामुत्तगहेमजाल-[ मणिजाल ]कणगजालग-सुत्तग-उरितिय-कडग-खद्ध-एगावलि-कंठसुत्तमगहग-धरच्छ-गेवेज्ज-सोणिसुत्तग-तिलग-फुल्लग-सिद्धत्थियकण्णवालिय-ससि-सूर-उसभ-चक्कय-तलभंगय-तुडिय-हत्थमालयहरिस-केऊर-वलय-पालंब-पलंब-अंगुलेज्जग-वलक्ख-दीणारमालिया, चंदसूरमालिया-कंचि-मेहल-कलाव-पयरग-परिहेरग-पायजालघंटियाखिखिणि-रयणोरुजाल-खुड्डियवरणेउरचलणमालिया-कणगणिगलजालग-मगरमुहविरायमाणने उरपचलिय-सद्दालभूसणधरीओ, वेष:-आकृतिविशेषो यकाभिस्तास्तथा, “किं ते 'त्ति तद्यथार्थः 'हारऽद्धहार-पाउत्तरयणकुंडल-वामुत्तगहेमजाल-मणिजाल-कणगजाल-सुत्तग-उरितिय-कडग-खड्डुगएगावलि-कंठसुत्त-मगहग-धरच्छ-गेवेज्ज-सोणिसुत्तग-तिलग-फुल्लग-सिद्धत्थियकण्णवालिय-ससि-सूर-उसभ-चक्कय-तलभंगय-तुडिय-हत्थमालय-हरिस-केऊर१. . पु.प्रे. / खड्डुग एगा०वृत्तौ //