________________ सूत्र - 51] देवीवर्णनम् वलय-पालब-पलंब-अंगुलिज्जग-वलक्ख-दीणारमालिया-चंदसूरमालिया-कंचिमेहल-कलाव-पयरग-परिहेरग-पायजालघंटिया-खिखिणि-रयणोरुजाल-खुड्डियवरनेउर-चलणमालिया-कणगणिगल-जालग-मगरमुहविरायमाणनेउरपचलियसद्दालभूसणधरीओ 'त्ति हारादीनि मकरमुखविराजमाननूपुरान्तानि प्रचलितानि सन्ति सद्दालत्ति-शब्दवन्ति यानि भूषणानि तानि धारयन्ति यास्तास्तथा, तत्र हार:-अष्टादश-सरिकः अर्द्धहारो-नवसरिकः पाउत्तत्ति-प्रयुक्तानि माणिक्ययुक्तकङ्कणानि रत्नकुण्डलानि-प्रतीतानि अथवा प्रयुक्तरत्नकुण्डलानि-प्रयुक्तरत्नानि यानि कुण्डलानि तानि तथा तथा व्यामुक्तकानिपरिहितानि प्रलम्बितानि वा यानि हेमजालादीनीति कर्मधारयः, तत्र हेमजालं-सच्छिद्रः सुवर्णालङ्कारविशेषः एवं मणिजालमपि कनकजाल-हेमजालयोस्तु आकारकृतो विशेषः स च रूढिगम्यः, सूत्रकं-वैकक्षककृतं सुवर्णसूत्रम् 'उरितिय'त्ति उरसि त्रिकं त्रिसरकं कटकानिकङ्कणानि खड्डुगत्ति-अङ्गलीयकविशेषः एकावली-नानामणिकमयी माला कण्ठसूत्रंगलावलम्बि सङ्कलकविशेषः मगधकं धराक्षं च रूढिगम्यं, ग्रैवेयकं-कण्ठकः श्रोणिसूत्रकंसौवर्ण कटीसूत्रं तिलको-विशेषको ललाटाभरणमित्यर्थः, फुल्लकं-पुष्पाकृतिललाटाभरणं सिद्धाथिका-सर्षपप्रमाणसुवर्णकणरचितसुवर्णमणिमयी कण्ठिका कर्णवालिका-कर्णोपरितनभागभूषणविशेषः शशि-सूर-ऋषभ-चक्रकानि तलभङ्गकं च रूढिगम्यानि, त्रुटिका:बाहुरक्षिकाः हस्तमालक:-अङ्गणेत्रिका हरिसत्ति-रूढिगम्यं केयूरम्-अङ्गदं बाह्वाभरणविशेष: वलयानि-कटकविशेषाः प्रालम्बो-झुम्बनकं प्रलम्बो गलाभरणविशेषः इत्यर्थः अङ्गलीयकानि-अङ्गल्याभरणविशेषाः वलाक्षं-रूढिगम्यं दीनारमालिका-चन्द्रमालिका-सूर्यमालिकास्तु दीनाराद्याकृतिमालाः काञ्ची-मेखलयोः कट्याभरणयोर्यद्यपि नामकोशे एकार्थत्वमधीयते तथापीह विशेषो रूढेरवसेयः, कलाप:-कण्ठाभरणविशेषो मेखलाकलाप इति वा द्रष्टव्यं प्रतरकाणि वृत्तप्रतला आभरणविशेषाः परिहेरगत्ति-रूढ्यवसेयं, पादजालघण्टिका:पादाभरणविशेषा किङ्किणीका:-क्षुद्रघण्टिकाः रत्नोरुजालं-रत्नमयं जङ्घयोः प्रलम्बमानं सङ्कलकं क्षुद्रिका:-तत्प्रान्तघण्टिकाः वरनूपुराणि - प्रतीतानि क्षुद्रिकावरनूपुराणि वा-क्षुद्रघण्टिकाप्रधानतुलाकोटिकानि चलनमालिका-पादाभरणविशेषः कनकनिगलानिनिगडाकारः सौवर्णः पादाभरणविशेषः जालकं-चरणाभरणविशेषः, मकरमुखविराजमानदसद्धवन्न-राग-रइतरत्त-मणहरे महग्घा णासाणीसासवातवज्झे चक्खुहरे वन्नफरिसजुत्ते हयलालापेलवाइरेगे धवले कणयखचितंतकम्मे आगासफालिय१. स्वर्ण० BJ // 2. खुड्ड० खं //