________________ सूत्र - 51] देवीवर्णनम् 91 रिद्धीओ 'त्ति - प्रेक्षमाणाश्च परभॊः उत्तमाः, एवं कल्पालयाः सुरवराः 'जिणिंदवंदणनिमित्तभत्तीए'त्ति जिनेन्द्रवन्दनहेतुभूतभावेन 'चोइयमइ 'त्ति प्रेरितबुद्धयः हर्षितमानसाश्च जीतकल्पम वर्तमाना देवाः 'जिणदसणूस्सुयागमण-जणियहासा' जिनदर्शनाय यदुत्सुकं-शीघ्रमागमनं तेन जनितो हर्षो येषां ते तथा, 'विपुलबलसमूहपिडिया' विपुलो बलसमूहः-सैन्यसमुदयः पिण्डितो यैस्ते तथा, कथमित्याह-'संभमेणं'ति भक्तिकृतौत्सुक्येन 'गगणतल-विमल-विपुल-गमणगइचवलचलियमणपवणजइणसिग्घवेगा' गगनतले विमले विपुले च यद्गमनं तस्य सम्बन्धी शीघ्रवेग इति सम्बन्धः गतिश्चपला स्वरूपत एव यस्य तद्गतिचपलं तच्च तच्चलितं च गन्तुं प्रवृत्तं तद्विधं यन्मनः पवनश्च तयोर्जयनशीलोऽत एव शीघ्रो वेगो येषां ते तथा, नानाविधयानवाहनगताः यानानिरथादीनि वाहनानि-गजादीनि उच्छ्रितविमलधवलातपत्राः, 'विउव्वियजाणवाहणविमाण-देहरयणप्पभाए'त्ति वैक्रियाणां यानादीनां 4 रत्नानां च स्वाभाविकानामितरेषां च या प्रभा सा तथा तया, 'उज्जोएंता नहं' कथमित्याह-'वितिमिरं करेंता' नभ एवेति 'सव्विड्डीए' युक्ता इति शेषः, 'हुलिय'ति शीघ्रं प्रयाताः / गमान्तरमिदम्-'पसिढिलवरमउडतिरीडधारी' प्रश्लथा:-शिथिलबन्धना, गाढबन्धनानां बाधाजनकत्वात् [वर] मुकुटाश्चतुरस्राः शेखरविशेषाः तिरीटास्त एव शिखरत्रययुक्तास्तान् धारयन्ति ये तच्छीलाश्च ते तथा, कुण्डलोद्योतिताननाः, 'मउडदित्तसिरय'त्ति मुकुटेन दीप्ताः शिरोजा-मस्तककेशा येषां ते तथा, मुकुटदीप्तशिरस्का वा, 'रत्ताभ'त्ति लोहितवर्णाः ‘पउमपम्हगोर 'त्ति कमलगर्भकान्ताः पीता इत्यर्थः, 'सेय'त्ति शुक्लाः, त्रिवर्णा एव वैमानिका भवन्ति, यदाह "कणगत्तयरत्ताभा सुरवसभा दोसु होंति कप्पेसु / .. तिसु होति पम्हगोरा तेण परं सुकिला देवा // 1 // " शेष व्यक्तमेवेति / -तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे अच्छरगणसंघाया अंतियं पाउब्भवित्था ताओ णं अच्छराओ धंत-धोय-कणगरुयगसरिसप्पभाओ समतिक्कंता य बालभावं मज्झिमजरढवयविरहिया अणतिवरसोमचारुरूवा निरुवहयसरसजोव्वण-कक्कस-तरुणवयभावमुवगयाओ निच्चमवद्रियसभावा सव्वंगसुंदरीओ इच्छितनेवत्थरइयरमणिज्ज१. ०वर्तयमाना० B Jखं. / / 2. तच्च - खं नास्ति // ३.कनकत्वग्रक्ताभा: सुरवृषभा द्वयोर्भवन्ति कल्पयोः। त्रिषु भवन्ति पद्मगौरास्ततः परं शुक्ला देवाः // 1 // 4... चिह्नद्वयमध्यवर्तिपाठ: मु. नास्ति / पु प्रे. / वर्तते वृत्तावपि वाचनान्तरेण कियान् पाठो दृश्यते //