________________ श्री औपपातिकसूत्रम् तंति-तल-ताल-गीय-वाइयरवेणं' प्रचलितायाः घण्टावल्याः यो मधुरः शब्दः स तथा वंशश्च-वेणुस्तन्त्री च-वीणा तलतालाश्च-हस्तताला अथवा तलाश्च-हस्ता: तालाश्च-कंशिका गीतं च-गेयं वादितं च-वादित्रमिति द्वन्द्वः, अतस्तेषां यो रवः-शब्दः स तथा, ततः पदद्वयस्य समाहारद्वन्द्वः, अतस्तेन करणभूतेन मधुरेण मनोहरेण पूरयन्तः अम्बरं, दिशश्च शोभयन्तस्त्वरितं सम्प्रस्थिताः स्थिरयशसो देवेन्द्रा इति व्यक्तं, 'हट्टतुट्ठमणस'त्ति अतीव तुष्टचित्ता: ‘सेसावि य'त्ति इन्द्रसामानिकादयः, तानेवाह-'कप्पवरविमाणाहिवा' कल्पेषु यानि वरविमानानि तेषामधिपा इत्यर्थः, समनुयान्ति सुरवरेन्द्रानिति योगः, अत एव सुरवराः 'सविमाणविचित्तचिंध-नामंकविगड[पागड]मउडाडोव-सुभदंसणिज्जा' स्वविमानविचित्रचिह्नानां नामाङ्कविकटप्रकटमुकुटानां च य आटोप:-स्फारता तेन शुभा ये दृश्यन्ते ते तथा ते विचित्रकल्पवरविमानाधिपाः, 'समन्निति'त्ति समनुयान्ति समनुगच्छन्ति सुरवरेन्द्रानिति, तथा 'लोयंतविमाणवासिणो यावि देवसंघाय'त्ति लोकस्य-ब्रह्मलोकस्यान्ते-समीपे यानि विमानानि तद्वासिनो लोकान्तिकाश्चापीत्यर्थः, 'पत्तेयविरायमाण-विरइय-मणिरयणकुंडल-भिसंत-निम्मलनियगंकियविचित्तपागडियचिंधमउडा' प्रत्येकं विराजमानानिशोभनानि विरचितानि-कर्णेषु कृतानि मणिरत्नकुण्डलानि येषां ते तथा,भिसंतत्ति-दीप्यमानानि निर्मलानि निजाङ्कितानि निजकेन नामादिनाऽङ्केनाङ्कितानि विचित्राणि-विविधानि प्रकटितानि-प्रकाशितानि चिह्नानि च मुकुटानि चिह्नप्रधानानि वा मुकुटानि यैस्ते तथा, तथा 'दायंत'त्ति दर्शयन्तः 'अप्पणो समुदयंति आत्मीयं ऋद्ध्यादिसमूहं 'पेच्छंता वि य परस्स कप्पालया सुरवरा जिणिंदवंदणनिमित्तभत्तीए चोइयमई हरिसियमणसा य जीयकप्पमणुव्वत्तमाणा देवा जिणदंसस्सुयागमणजणियहासा, विपुलबलसमूहपिंडिया, संभमेणं गगणतल-विमल-विपुल-गमणगतिचवलचलियमणपवणजइणसिग्घवेगा, नाणाविहजाणवाहणगया ऊसियविमलधवलायवत्ता विउव्वियजाणवाहणविमाणदेहरयणप्पभाए उज्जोवेंता नहं वितिमिरं करेंता सव्विड्डीए हुलितं पयाता-पसढिलवरमउडतिरीडधारी कुंडलउज्जोइयाणणा मउडदित्तसिरया रत्ताभा पउमपम्हगोरा सेया सुभवन्नगंधफासा उत्तमवेउव्विणो पवरवत्थगंधमल्लधरा महिड्डीया जाव पज्जुवासंति। 1. विचित्रि० B खं.J / 2. JB | शोभमानानि-मु. // 3. विवहवत्थ० मु. JV / 4. द्रष्टव्यं सूत्र 47 //