________________ सूत्र - 51.] वैमानिकदेववर्णनम् विभूषिताः सुरसमूहनायकाः सौम्यचारुरूपाः 'देवसंघजयसद्दकयालोया' देवसङ्घन जयशब्दः कृत आलोके-दर्शने येषां ते तथा / _ 'मिग 1 महिस 2 वराह 3 छगल 4 दद्दुर 5 हय 6 गयवइ 7 भुयग 8 खग्ग 9 उसभंक 10 विडिमपागडियचिंधमउडा' मृगादयो दश दशानां शक्रादीन्द्राणां चिह्नभूताः, तत्र वराह:-शूकरः खड्ग-आटव्यचतुष्पदविशेषः ऋषभो-वृषभः शेषाः प्रतीताः, तत्र मृगादयः अङ्का-लाञ्छनानि विटपेषु-विस्तरेषु येषां मुकुटानां तानि तथा, तानि प्रकटितचिह्नानि-रत्नादिदीप्त्या प्रकाशितगादिलाञ्छनानि मुकुटानि येषां ते तथा / पालक 1 पुष्कर 2 सौमनस 3 श्रीवत्स 4 नन्द्यावर्त 5 कामगम 6 प्रीतिगम 7 मनोगम 8 विमल 9 सर्वतोभद्र 10 नामधेयैर्विमानैः, उत्तरवैक्रियैरित्यर्थः, सम्प्रस्थिता इति योगः, एतानि च क्रमेण शंक्रादीनामच्युतान्तानां दशानामिन्द्राणां भवन्तीति / किंविधैस्तैरित्याह- तरुणदिवायरकरातिरेगप्पभेहिं मणि-कणग-रयण-घडिय-जालुज्जल [ हेम ]जालपेरंतपरिगतेहिं सपतर-वरमुत्तदाम-लंबंतभूसणेहिं पचलियघंटावलिमहरसद्द-वंस-तंति-तल-ताल-गीय-वाइय-रवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ यं सोभयंता तुरियं संपट्ठिया 'थिरजसा देवेंदा हट्टतुट्ठमणसा, सेसावि य कप्पवरविमाणाहिवा सुरवरा सविमाणविचित्तचिंध-नामंकविगडपागडमउडाडोवसुभदंसणिज्जा, ते वि समणिति सुरवरिंदे लोगंतिविमाणवासिणो यावि देवसंघाया पत्तेयविरायमाण-विरइयमणिरयण-कुंडल-भिसंत-निम्मल-नियगंकियविचित्तपागडिय-चिंधमउडा, दायंता अप्पणो समुदयं, पेच्छंता वि य परस्स रिद्धीओ उत्तमाओ, एवं 'तरुणदिवागरकरातिरेगप्पहेहिं' तरुणदिवाकरकरेभ्योऽतिरेकेण-अतिशयेन प्रभा येषां तानि तथा तैः, 'मणि-कणग-रयण-घडिय-जालुज्जल-हेमजालपेरंतपरिगएहिं' मणिकनकरत्नैघटितं-युक्तं यज्ज्वालोज्ज्वलं-प्रभोज्ज्वलं हेमजालं-स्वर्णजालकं तेन पर्यन्तेषु परिगतानि यानि तथा तैः, 'सपयर-वरमुत्तदाम-लंबंतभूसणेहिं' सह प्रतरैः-आभरणविशेषैर्वरमुक्तादामलक्षणानि लम्बमानानि भूषणानि येषु तानि तथा तैः, ‘पचलियघंटावलिमहुरसद्द-वंस१. -- चिह्नद्वयमध्यवर्तिपाठः पु प्रे. / अस्ति अभयदेवसूरिवृत्तौ वाचनान्तरेऽपि दृश्यते / मु. J आदर्श अत्र 'ओइण्णा वंदका जिणिंद' इति पाठः / / 2. ०हेमजाल०अ.टी. / ०ज्जलजाल० पु प्रे.. // 3. थिरयसा देवसा देवें० खं. / / 4. तानि -Jम. | यानि तानि - खं. // श्री औप. 12