________________ 88 श्री औपपातिकसूत्रम् __ [50] ज्योतिष्कवर्णको व्यक्तो, नवरम् 'अंगारका यत्ति मङ्गलाः, बहुत्वं च प्रत्येक ज्योतिषामसङ्ख्यातत्वात्, 'तत्ततवणिज्जकणगवण्णा' तप्तस्य तपनीयस्य-सुवर्णस्य यः कणको-बिन्दुः शलाका वा अथवा तपनीयं-रक्तं सुवर्णं कनक-सुवर्णमेव पीतं तद्वद्वर्णो येषां ते तथा, 'जे य गह'त्ति उक्तव्यतिरिक्ताः, जोइसंमि'त्ति ज्योतिश्चक्रे 'चारं चरन्ती'ति भ्रमणं कुर्वन्ति, केऊ यत्ति केतवो जलकेत्वादयः, किम्भूता ?-'गइरइय'त्ति मनुष्यलोकापेक्षयोक्तं, 'ठियलेस्स'त्ति स्थितलेश्या:-निश्चलप्रकाशा: 'चारिणो यत्ति सञ्चरिष्णवः, अत एवाह'अविस्साममंडलगइ'त्ति प्रतीतं, 'नामंक-पागडिय-चिंधमउडा' नामाङ्कितानि प्रकटितानि चिह्नप्रधानानि मुकुटानि यैरिति समासः // 50 // __ 51 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे वेमाणिया देवा अंतियं पाउब्भवित्था-सोहम्मीसाण-सणंकुमार-माहिंद-बंभलंतग-महासुक्क-सहस्सारा-ऽऽणत-पाणत-आरणच्चुतवती पहिट्ठा A सामाणियतायत्तीससहिया सलोयवालग्गमहिसिपरिसाणीयायरक्खेहिं संपरिवुडा देवसहस्साणुआयमग्गेहिं सुरवरगणीसरेहिं पयएहिं समणुगम्मतसस्सिरीया सव्वायरभूसिया सुरसमूहनायगा सोमचारुरूवा देवसंघजयसद्दकतालोया मिग-महिस-वराह-छगल-दडुर-हय-गयवइ-भुयग-खग्ग-उसभंकविडिमपागडियचिंधमउडा Aपालग-पुष्फग-सोमणस-सिरिवच्छ-णंदियावत्त -कामगम-पीतिगम-मणोगम-विमल-सव्वओभद्दनामधेज्जेहिं विमाणेहिं [51] वैमानिकवर्णकोऽपि व्यक्तो, नवरं वाचनान्तरगतं किञ्चिदस्य व्याख्यायते, तदन्तर्गतं किञ्चिदधिकृतवाचनान्तरगतं च, तत्र 'सामाणियतायत्तीससहिया' सामानिकाइन्द्रसमानायुष्कादिभावाः त्रायस्त्रिंशा:-महत्तरकल्पाः पूज्यस्थानीयाः 'सलोगपालअग्गमहिसिपरिसाणीयायप्परक्खेहिं संपरिवुडा' सह लोकपालैः-सोमादिभिदिक्पालकनियुक्तकैः या अग्रमहिष्यः-प्रधानजायाः परिषदश्च-बाह्यमध्यमाभ्यन्तरा जघन्यमध्यमोत्कृष्टपरिवारविशेषभूताः अनीकानि च-हस्त्यश्वरथपदातिवृषभनर्तकगाथकजनरूपाणि सैन्यानि आत्मरक्षाश्चअङ्गरक्षा इति द्वन्द्वः, अतस्तैः सम्परिवृता इति, देवसहस्रानुयातमार्गः सुरवरगणेश्वरैः प्रयतैः ‘समणुगम्मतसस्सिरीय'त्ति समनुगम्यमानाश्च ते सश्रीकाश्चेति समासः सर्वादर१. ०न्ति विव्वर(विक्क J)यति चिह्नप्रधानानि किम्भूता ?-JBI| 2. AA चिह्नद्वयमध्यवर्तिपाठ: BJ मु. नास्ति, / पु.प्रे. वृत्तौ वाचनान्तरे च अस्ति 3. ०यादत्ताबद्धमाणगकाम० / पु.प्रे. //