________________ 87 सूत्र - 49-50] वाणव्यन्त्यर-ज्योतिष्कदेवस्वरूपम् सुवर्णादिमयं कुण्डलानि च-प्रतीतानि एतान्येव स्वच्छन्दविकुर्विताभरणानि-स्वाभिप्रायनिर्मितालङ्कारास्तैर्यच्चारु विभूषणं-भूषा तद्धारयन्ति ये ते तथा, 'सव्वोउय-सुरभिकुसुमसुरइयपलंब-सोहंत-कंत-वियसंत-चित्तवणमाल-रइयवच्छा' सर्वर्तुकानि-सर्वऋतुसम्भवानि यानि सुरभीणि कुसुमानि तैः सुरचिता या सा तथा, सा चासौ प्रलम्बा च शोभमाना च कान्ता च विकसन्ती च चित्रा च वनमाला च-वनस्पतिस्रक् इति समासः, सा रचिता वक्षसि यैस्ते तथा, 'कामगमि'त्ति इच्छागामिनः 'कामरूवधारि'त्ति ईप्सितरूपधारिणः 'नाणाविह वण्णराग-वरवत्थ-चिलचिल्लय-नियंसणा' नानाविधवर्णो रागो येषु तानि तथा, तानि वरवस्त्राणि चित्राणि-विविधानि 'चिल्लय'त्ति लीनानि दीप्तानि वा निवसनानि-परिधानानि येषां ते तथा, 'विविधदेसीनेवत्थ-गहियवेसा' विविधंदेशीनेपथ्येन-नानादेशरूढवस्त्रादिन्यासेन गृहीतो वेषो-नेपथ्यं यैस्ते तथा, 'पमुइय-कंदप्प-कलह-केलि-कोलाहलप्पिया' प्रमुदितानां यः कन्दर्पः-कामप्रधानः केलिः, काम एव वा, कलहश्च-राटी केलिश्च-नर्म कोलाहलश्च-कलकलस्ते स्वपरकृताः प्रिया येषां ते तथा, अथवा प्रमुदिताश्च ते कन्दर्पादिप्रियाश्चेति समासः, 'हासबोलबहुला' पाठान्तरे 'हासकेलिबहुला' इति व्यक्तम्, 'अणेगमणि-रयण-विविह-निजुत्त-चित्त-चिंधगया' अनेकानि-बहूनि मणिरत्नानि-प्रतीतानि विविधानि-बहुप्रकाराणि नियुक्तानि-नियोजितानि येषु तानि तथा, तानि चित्राणि चिह्नानि गताः-प्राप्ता ये ते तथा, चिह्नानि च-पिशाचादीनां क्रमेणैतान्युच्यन्ते 'चिंधाइ कलंबझए 1 सुलस 2 वडे 3 तह य होइ खटुंगे 4 / / आसोए 5 चंपए वा 6 नागे 7 तह तुंबुरी चेव 8 // 1 // ' // 49 // 50 - तेणं कालेणं तेणं समएण्णं समणस्स भगवओ महावीरस्स बहवे जोइसिया देवा अंतियं पाउन्भवित्था- विहस्सती चंद-सूर-सुक्क-सणिच्छरा राहू धूमकेतुबुहा य अंगारका य तत्ततवणिज्जकणगवन्ना जे य गहा जोइसम्मि चारं चरंति केऊ य गतिरइया अट्ठावीसतिविहा य नक्खत्तदेवगणा नाणासंठाणसंठियाओ य पंचवण्णगाओ तारगाओ / ठियलेसा चारिणो य अविस्साममंडलगई पत्तेयं नामंक-पागडिय-चिंधमउडा महिड्डिया जाव पज्जुवासंति // 50 // 1. B खं. J / चिल्लिय० मु. // 2. दीप्राणि - Jखं. // 3. खं.। ०धदेशि० मु. // 4. चिह्नानि कदम्बध्वजः सुलसः वटः तथा च भवति खट्वाङ्गम् / अशोकश्चम्पको वा नागस्तथा तुम्बरी चैव // 1 // 5. मु.पु.प्रे. L / जोइसंचार-B॥ 6. पु.प्रे. / / ०वण्णातो तारातो-BJ || 7. द्र. सू. 47 //