________________ श्री औपपातिकसूत्रम् 49 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे वाणमंतरा देवा अंतियं पाउब्भवित्था पिसाया भूया य जक्ख-रक्खसकिन्नर-किंपुरिस-भुयगवइणो य महाकाया गंधव्वनिकायंगणा निउणगंधव्वगीतरइणो अणवन्निय-पणवन्निय-इसिवादिय-भूतवादिय-कंदियमहाकंदिया य कुहंड-पैययदेवा चंचल-चवल-चित्त-कीलण-दवप्पिया गंभीर-हसिय-भणिय-पिय-गीत-नच्चणरती वणमालामेल-मउड-कुंडलसच्छंदविउव्वियाभरणचारुविभूसणधरा सव्वोउयसुरभि-कुसुम-सुरइयपलंब-सोभंत-कंत-विगसंत-चित्तवणमाल-रइयवच्छा कामगमी कामरूवधारी नाणाविहवन्नराग-वरवत्थ-चित्तचिल्लग-नियंसणा विविहदेसीनेवत्थ-गहितवेसा पमुइय-कंदप्प-कलह-केलि-कोलाहलप्पिया हासबोलबहुला अणेग-मणि-रयण-विविह-निजुत्त-चित्त-चिंधगया सुरूवा महिड्डिया जाव पज्जुवासंति // 49 // [49] 'भुयगवइणो 'त्ति महोरगाधिपाः, किम्भूतास्ते इत्याह-'महाकाय'त्ति बृहद्देहाः, इदं च विशेषणमवस्थाविशेषाश्रयम्, अन्यथा सर्व एव सप्तहस्तप्रमाणा- भवन्ति, यदाह"भवणवणजोइसोहमीसाणे सत्त होति रयणीओ' 'गंधव्वनिकायगण'त्ति गन्धर्वाणांव्यन्तराष्टमभेदभूतानां निकायो-वर्गो येषां ते गन्धर्वनिकाया गन्धर्वा एव तेषां ये गणा-राशयस्ते तथा, पाठान्तरे 'गन्धर्वपतिगणाश्चेति व्यक्तमेव, किंविधास्ते इत्याह-'निउणगंधव्वगीयरइणो 'त्ति निपुणे-सूक्ष्मे गन्धर्वे च-नाट्योपेतगाने गीते च-नाट्यवर्जितगेये रतिर्येषां ते तथा, अणपन्निकादयोऽष्टौ व्यन्तर-निकायविशेषभूताः रत्नप्रभापृथिव्या उपरितनयोजनशतवर्तिनः, किंविधा एत इत्याह-'चंचल-चवल-चित्त-कीलण-दवप्पिया' चञ्चलचपलचित्ताः-अतिचपलमानसाः क्रीडनं-क्रीडा द्रवश्च-परिहासस्तत्प्रियाः, ततः कर्मधारयः, 'गंभीर-हसिय-भणिय-पिय-गीय-नच्चणरई' गम्भीरं हसितं येषां भणितं चवाक्प्रयोगः प्रियं येषां गीतनृत्तयोश्च रतिर्येषां ते तथा, 'गहिर-हसिय-गीय-णच्चणरइ'त्ति क्वचिदृश्यते व्यक्तं च, 'वणमालामेल-मउड-कुंडलसच्छंदविउव्वियाभरणचारुविभूसणधरा' वनमाला-रत्नादिमय आप्रपदीन आभरणविशेष: आमेलक:-पुष्पशेखरः मुकुटं१. पु.प्रे. / / गया-JB // 2. पु.प्रे. / / कंदमहा० BJ || 3. J / ०पनंददेवा-पुप्रे. / // 4. द्रष्टव्यं सू. 47 // 5. भवनवनज्योतिष्कसौधर्मेशानेषु सप्त भवन्ति रत्नयः / 6. Bखं.JI ०खरकः-मु. / /