________________ 84 श्री औपपातिकसूत्रम् "चूडामणिफणिवज्जे गरुडे घड अस्स वद्धमाणे य। मयरे सीहे हत्थी असुराईणं मुणसु चिंधे // 1 // " 'महिड्डिअ'त्ति महर्द्धयो विशिष्टविमानपरिवारादियोगात् 'महज्जुइय'त्ति महाद्युतयो विशिष्टशरीराभरणप्रभायोगात् 'महाबल'त्ति विशिष्टशारीरप्राणा: 'महायस'त्ति महायशसोविशिष्टकीर्तयः ‘महासोक्ख'त्ति महासौख्या: 'महाणुभाग'त्ति अचिन्त्यशक्तियुक्ता इति, इहैव गमान्तरं हारविराजितवक्षसः कटकत्रुटिकस्तम्भितभुजाः' इह कटकानि-कङ्कणानि त्रुटिका बाहुरक्षिकाः / 'अंगय-कुंडल-मट्ठ-गंडकण्णपीढधारी' अङ्गदानि-बाह्वाभरणविशेषान् कुण्डलानि च कर्णाभरणविशेषान् मृष्टगण्डानि च- उल्लिखितकपोलानि कर्णपीठानि-कर्णाभरणविशेषान् धारयन्तीत्येवंशीला ये ते तथा, 'विचित्तवत्थाभरण'त्ति व्यक्तं, 'विचित्तमालामउलियमउडा' विचित्रा माला:-कुसुमस्रजो येषां मौलौ च-मस्तके मुकुटंकिरीटं येषां ते तथा, शेषं सुगमं वर्णकान्तं यावत्, नवरं माल्यानि-पुष्पाणि बोन्दिः-शरीरं प्रलम्बो-झुम्बनकं वनमाला-आभरणविशेषः प्रलम्बवनमाला वा तस्याः कण्ठतो जानुप्रमाणत्वादिति / दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं दिव्वेणं फासेणं दिव्वेणं संघाएणं ( संघयणेणं) दिव्वेणं संठाणेणं, दिव्वाए इड्डीए, दिव्वाए जुतीए, दिव्वाए पभाए, दिव्वाए छायाए, दिव्वाए अच्चीए, दिव्वेणं तेएणं, दिव्वाए लेसाए, दस दिसाओ उज्जोवेमाणा पभासेमाणा समणस्स भगवओ महावीरस्स अंतियं आगम्मागम्म रत्ता समणं भगवं महावीरं तिक्खुत्तो आदाहिणपयाहिणं करेंति करित्ता तिक्खुत्तो वंदंति नमसंति वंदित्ता नमंसित्ता A साइं साइं नामगोयाइं साधेति साधित्ता A नच्चासन्ने नाइदूरे सुस्सूसमाणा नमंसमाणा अभिमुहा विणएणं पंजलिकडा पज्जुवासंति॥ 47 // दिव्वेणं' देवोचितेन प्रधानेनेत्यर्थः, 'संघाए( घयणे )णं'ति संहननेन वज्रर्षभनाराचेनेत्यर्थः, 'संठाणेणं 'त्ति समचतुरस्रलक्षणेनेत्यर्थः, 'रिद्धीए'त्ति परिवारादिकया 1. चूडामणिः फणी वजं गरुड: घटः अश्वो वर्द्धमानश्च / मकरः सिंहो हस्ती असुरादीनां मुण चिह्नानि // 1 // 2. खं.J / प्रमाणा:-मु. // 3. B खं. / कर्णपीठकानि-मु. // 4. कुम्ब० खं. // 5. AA चिह्नद्वयमध्यवर्तिपाठ: JB मु. नास्ति खं. अस्ति / / 6. खं. वज्रऋषम० मु. / /