________________ सूत्र - 47] असुरकुमारवर्णनम् 83 प्रकाशो-दीप्तिर्येषां ते तथा, ततः कर्मधारयः, कालवर्णा इत्यर्थः, 'वियसिअसतवत्तमिवे'ति व्यक्तं, . 'पत्तल-निम्मल-ईसीसियरत्ततंब-नयणा' पत्तलानि-पक्ष्मवन्ति निर्मलानिविमलानि ईषत् सितरक्तानि क्वचिद्देशे मनाक् श्वेतानि क्वचिच्च मनाग्रक्तानीत्यर्थः क्वचिच्च ताम्राणि-अरुणानि नयनानि येषां ते तथा, शतपत्रसाधर्म्यं च व्यक्तमेव, 'गरुले 'त्यादिविशेषणचतुष्टयं महावीरवर्णकवन्नेयम् 'अंजण-घण-कसिण-रुयगरमणिज्ज-णिद्धकेसा' अञ्जनघनौ-प्रतीतौ कृष्णः-कालः रुचको-मणिविशेषस्तद्वद्रमणीयाः स्निग्धाश्च केशा येषां ते तथा, 'वामेक्ककुंडलधरा' वामे कर्णे एकमेव कुण्डलं धारयन्ति ये ते तथा, दक्षिणे त्वाभरणान्तरधारिण इति सामर्थ्यगम्यम्, आर्द्रचन्दनानुलिप्तगात्रा इति व्यक्तम् / ईसीसिलिंध-पुष्फप्पगासाइं असंकिलिट्ठाइं सुहुमाइं वत्थाई पवरपरिहिया वयं च पढमं समइक्वंता बितियं च असंपत्ता भद्दे जोव्वणे वट्टमाणा तलभंगयतुडिय-पवरभूसण-निम्मल-मणि-रयण-मंडियभुया दसमुद्दा-मंडियग्गहत्था चुलामणि-चिंधगया सुरूवा महिडिया महज्जुइया महब्बला महायसा महासोक्खा महाणुभागा हारविराइयवच्छा कडग-तुडिय-थंभियभुया अंगयकुंडल-मट्ठ-गंड-कन्नपीढधारी विचित्तवत्थाभरणा विचित्तमालामउलिमउडा कल्लाणग-पवरवत्थपरिहिया कल्लाणग-पवरमल्लाणुलेवणा भासुरबोंदी पलंबवण-मालधरा "ईसिसिलिंध-पुप्फप्पगासाइंति मनाक् सिलिन्ध्रकुसुमप्रभाणि, ईषत्सितानीत्यर्थः, 'सिलिन्ध्र-भूमिस्फोटकच्छत्रकम् "असुरेसु होति रत्तं"ति मतान्तरम्, 'असंकिलिट्ठाई 'ति निर्दूषणानि 'सुहुमाईति श्लक्ष्णानि 'वत्थाई 'ति वसनानि 'पवरपरिहिया' प्रवराश्च ते परिहिताश्च-निवसिता इति समासः, 'वयं च' इत्यादि सूत्रं, तत्र त्रीणि वयांसि भवन्ति, यदाह ___"आषोडशाद्भवेद्वालो, यावत् क्षीरान्नवर्तकः / मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्यते // 1 // " आद्यस्य वयसोऽतिक्रमे द्वितीयस्य सर्वथैवाप्राप्तौ भद्रं यौवनं भवत्येवेति भद्रे यौवने इत्युक्तं, 'तलभंगय-तुडिय-पवरभूसण-निम्मलमणि-रयण-मंडियभुया' तलभङ्गकानिबाह्वाभरणानि त्रुटिकाश्च-बाहुरक्षिकास्ता एव वरभूषणानि तैर्निर्मलमणिरत्नैश्च मण्डिता भुजा येषां ते तथा, 'चूलामणि-चिंधगया' चूडामणिलक्षणं चिह्न प्राप्ताः, श्रूयन्ते चासुरादीनां चूडामण्यादीनि चिह्नानि, यदाह१. B खं. J / वामेग० मु. // 2. JB | महाणुभावा-पु प्रे.. // 3. ०गंडयलकन्न० पुप्रे.! / गंडतलकण्ण० मु. JV पाठा. / गंडगलकण्ण० / पाठा. 4. BJVपाठा. / विचित्तहत्था०L पुप्रे.। विचित्तहत्थाभरणा विचित्तवत्थाभरणा v पाठा. // 5. शिलि० खं. / 6. शिली० खं. / / 7. तुटिका० खं. //