________________ 82 श्री औपपातिकसूत्रम् वा प्रश्न्यन्ते ये ते सुप्रश्नाः, शोभना आशा:-वाञ्छा येषां ते स्वाशाः, अथवा सुखेन प्रश्यन्ते शास्यन्ते च-'शिक्ष्यन्ते ये ते सुप्रश्नशास्याः, शोभनानि वा प्रश्नशस्यानि-पृच्छाधान्यानि येषां ते तथा, अथवा सुप्रश्नाः शस्याश्च-प्रशंसनीयाः, ततः कर्मधारय इति, 'दूइज्जन्त 'त्ति द्रवन्तोवसन्तः, अनेकार्थत्वा-द्धातूनां, 'निब्भय'त्ति भयमोहनीयोदयनिषेधात् 'गयब्भय'त्ति उदयविफलताकरणात् 'संजय'त्ति संयमवन्तः, कुत इत्याह-'विरय'त्ति यतो निवृत्ताः हिंसादिभ्यः, तपसि वा विशेषेण रताः विरता:, विरया वा-निरौत्सुक्या: विरजसो वा-अपापा: 'संचयाओ विरय'त्ति क्वचिद् दृश्यते, तत्र सन्निधेर्निवृत्ता इत्यर्थः, 'मुत्त'त्ति मुक्ताः ग्रन्थेन 'लहुय'त्ति लघुकाः स्वल्पोपधित्वात् 'निरवकंख'त्ति अप्राप्तार्थाकाङ्क्षावियुक्ताः ‘साहू' मोक्षसाधनात् 'निहुया' प्रशान्तवृत्तयः 'चरंति धम्म'त्ति व्यक्तम् / अत्र साधुवर्णके जितेन्द्रियत्वादीनि विशेषणानि बहुशोऽधीतानि, तानि च गमान्तरतया निरवद्यानि, यत् पुनरत्रैव गमे पुनरुक्तमवभासते तत् सूत्रत्वान्न दुष्टं यदाह "सज्झायझाणतवओसहेसु उवएसथुइपयाणेसुं / संतगुणकित्तणासु य न हुंति पुनरुत्तदोसा उ॥१॥" // 46 // 47 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स बहवे असुरकुमारा देवा अंतियं पाउब्भवित्था, काल-महानीलसरिसं-नीलगुलियगवल-अतसिकुसुमप्पगासा विगसितसयवत्तमिव पत्तल-निम्मल-ईसीसितरत्त-तंबनयणा गरुलायत-उज्जु-तुंगणासा ओयविय-सिल-प्पवालबिंबफलसन्निभाधरोट्ठा पंडुरससिसगल-विमल-निम्मल-संख-गोक्खीरफेण-दगरय-मुणालिया-धवलदंतसेढी हुयवह-निद्धंत-धोत-तत्त-तवणिज्जरत्ततलतालुजीहा अंजण-घण-कसिण-रुयग-रमणिज्ज-निद्धकेसा वामेक्ककुंडलधरा अद्दचंदणाणुलित्तगत्ता ___ [47] असुरवर्णके किमपि लिख्यते-काल-महानीलसरिस-नीलगुलिय-गवलअयसिकुसुमप्पगासा' कालो यो महानीलो-मणिविशेषस्तेन सदृशा वर्णतो ये ते तथा, नीलोमणिविशेषः गुलिका-नीलिका गवलं-माहिषं शृङ्गम् अतसीकुसुम-धान्यविशेषपुष्पं एतेषामिव 1. शिष्यन्ते खं.॥ 2. अल्पो० खं. // 3. J खं. स्तवत्वान्न - मु. // 4. स्वाध्याय-ध्यान-तप-औषधेषु उपदेशस्तुतिप्रदानेषु / सद्गुणकीर्तनेषु च न भवन्ति पुनरुक्तदोषास्तु // 5. VJB | गोक्खीरकुंददग-पुप्रे. / /