________________ सूत्र - 46] संयमपोतस्वरूपम् . किम्भूतेन?-धीइधणियनिप्पकंपेण' धृतिरज्जुबन्धनेन धनिकम्-अत्यर्थं निष्प्रकम्पःअविचलो यः स मध्यपदलोपाद्धृतिधनिकनिष्प्रकम्पस्तेन त्वरितचपलम्-अतित्वरितं यथा भवतीत्येवं तरन्ति, 'संवर-वेरग्ग-तुंग-कूवग-सुसंपउत्तेणं' संवरः-प्राणातिपातादिविरतिरूपो वैराग्यं-कषायनिग्रह: एतल्लक्षणो यस्तुङ्गः-उच्चः कूपक:-स्तम्भविशेषस्तेन सुष्ठ सम्प्रयुक्तोयुक्तो यः स तथा तेन, 'नाण-सित-विमलमूसिएणं'ति ज्ञानमेव सितः-सितपटः स विमल उच्छ्रितो यंत्र स तथा तेन, मकारश्चेह प्राकृतशैलीप्रभवः 'सम्मत्त-विसुद्ध-लद्ध-निज्जामएणं' सम्यक्त्वरूपो विशुद्धो-निर्दोषो लब्धः-अवाप्तो निर्यामक:-कर्णधारो यत्र स तथा तेन, धीराअक्षोभाः, संयमपोतेन शीलकलिता इति च प्रतीतं, 'पसत्थज्झाण-तववाय-पनोल्लियपधाविएणं' प्रशस्तध्यान-धर्मादि तद्रूपं यत्तपः स एव वातो-वायुस्तेन यत् प्रणोदितं-प्रेरणं तेन प्रधावितो-वेगेन चलितो यः स तथा तेन, संयमपोतेनेति प्रकृतम्, ‘उज्जम-ववसाय-ग्गहियणिज्जरण-जयण-उवओग-नाण-दसण-विसुद्धवयभंड-भरियसारा' उद्यम:-अनालस्यं व्यवसायो-वस्तुनिर्णयः सद्व्यापारो वा ताभ्यां मूल्यकल्पाभ्यां यद्गृहीतं-क्रीतं निर्जरणयतनोपयोगज्ञानदर्शनविशुद्धव्रतरूपं भाण्डं क्रयाणकं तस्य भरित:-संयमपोतभरणेन पिण्डितः सारो यैस्ते तथा, श्रमणवरसार्थवाहा इति योगः, तत्र निर्जरणं-तपः यतना-बहुदोषत्यागेनाल्पदोषाश्रयणम् उपयोग:-सावधानता ज्ञान-दर्शनाभ्यां विशुद्धानि व्रतानि, अथवा ज्ञानदर्शने च विशुद्धव्रतानि चेति समासः, व्रतानि च-महाव्रतानि, पाठान्तरेण 'नाण-दसण-चरित्त-विसुद्धवरभंडभरियसार 'त्ति तत्र ज्ञानदर्शनचारित्राण्येव विशुद्धवरभाण्डं तेन भरितः सारो यैस्ते तथा / जिणवरवयणोवदिट्ठमग्गेण अकुडिलेण सिद्धि-महापट्टणाभिमुहा समणवरसत्थवाहा सुसुइ-सुसंभास-सुपण्हसासा गामे गामे एगरायं नगरे नगरे पंचरायं दूतिज्जंता जिइंदिया निब्भया गयब्भया सचित्ताचित्तमीसएसु दव्वेसु विरागतं गता संजया विरया मुत्ता लहुया निरवकंखा साहू निहूया चरंति धम्मं // 46 // 'जिणवर-वयणोवदिट्ठमग्गेण अकुडिलेण सिद्धि-महापट्टणाभिमुहा समणवरसत्थवाह'त्ति व्यक्तं, 'सुसुइ-सुसंभास-सुपण्हसास'त्ति सुश्रुतयः-सम्यक्श्रुतग्रन्थाः सत्सिद्धान्ता वा सुशुचयो वा सुखः सम्भाषो येषां ते सुखेन वा सम्भाष्यन्त इति सुसम्भाषाः, शोभनाः प्रश्नाः येषां सुखेन 1. Baa युक्तो-मु.नास्ति / / 2. BV | समणासत्थ० पुप्रे. / समणा वरसत्थ० // 3. मु. VI भासा० पुप्रे. // श्री औप. 11