________________ 80 श्री औपपातिकसूत्रम्, अन्नाणभमंतमच्छ-परिहत्थ-अणिहुतें दिय-महामगर-तुरिय-चरियखोखुब्भमाण-णच्चंत-चवल-चंचल-चलंत-घुम्म( ण्णं )त-जलसमूह अरति-भय-विसाय-सोग-मिच्छत्त-सेलसंकडं अणादिसंताण-कम्म-बंधणकिलेसर्चिक्खल्ल-सुदुत्तारं अमर-नर-तिरिय-निरयगतिगमण-कुडिलपरिवत्त-विपल-वेलं चउरंतमहंतमणवयग्गं रुंदं संसारसागरं भीमदरिसणिज्जं तरंति धिति-धणिय-निप्पकंपेण तुरियचवलं संवर-वेरग्गतुंग-कूवग-सुसंपउत्तेणं नाण-सित-विमलमूसिएणं सम्मत्त-विसुद्ध-लद्धणिज्जामएणं धीरा संजमपोएण सीलकलिया पसत्थज्झाण-तववातपणोल्लित-पहाविएणं उज्जम-ववसाय-ग्गहित-निज्जरण-जतण-उवओगनाण-दसण-विसुद्धवयभंड-भरियसारा ___ 'अण्णाणभमंतमच्छ-परिहत्थ-अणिहुतिंदिय-महामगर-तुरिय-चरिय-खोखु. ब्भमाण-नच्चंत-चवल-चंचल-चलंत-'घुण्णंतजलसमूह' अज्ञानान्येव भ्रमन्तो मत्स्याः परिहत्थत्ति-दक्षा यत्र स तथा, अनिभृतानि-अनुपशान्तानि यानीन्द्रियाणि तान्येव महामकरास्तेषां यानि त्वरितानि-शीघ्राणि चरितानि-चेष्टितानि तैः खोखुब्भमाणत्ति-भृशं क्षुभ्यमाणो नृत्यन्निव नृत्यन् चपलानां मध्ये चञ्चलश्च अस्थिरत्वेन, चलँश्च स्थानान्तरगमनेन घूर्णश्च-भ्राम्यन् जलसमूहो-जलसङ्घातोऽन्यत्र जडसमूहो यत्र स तथा, ततः कर्मधारयस्ततस्तम्, 'अरइ-भय-विसाय-सोग-मिच्छत्त-सेलसंकडं' अरति-भय-विषाद-शोक-मिथ्यात्वानि प्रतीतानि तान्येव शैलास्तैः सङ्कटो यः स तथा तम्, 'अणाइसंताणकम्मबंधणकिलेसचिक्खल्लसुदुत्तारं' अनादिसन्तानम्-अनादिप्रवाहं यत् कर्मबन्धनं तच्च क्लेशाश्चरागादयस्तल्लक्षणं यच्चिक्खल्लं-कर्दमस्तेन सुष्ठ दुरुत्तारो यः स तथा तम्, 'अमर-नर-तिरियनिरयगइगमण-कुडिलपरिवत्तविपुलवेलं' अमरनरतिर्यग्निरयगतिषु यद्गमनं तदेव कुटिलपरिवर्ता-वक्रपरिवर्तना विपुला च-विस्तीर्णा वेला-जलवृद्धिलक्षणा यत्र स तथा तं, 'चउरंतमहंतं 'ति चतुर्विभागं दिग्भेद-गतिभेदाभ्यां महान्तं च-महायामम्, 'अणवदग्गं'ति अनवदग्रम्-अनन्तमित्यर्थः, 'रुंदंति विस्तीर्णं, संसारसागरमिति व्यक्तं, 'भीमदरिसणिज्जति भीमो दृश्यत इति भीमदर्शनीयस्तं, 'तरंति' लङ्घयन्ति, संयमपोतेनेति .योगः 1. ०चिक्खिल्ल० BJV पाठा. / 2. रुई-मु.. पुप्रे.J // 3. J खं.। ०घुम्मंत मु.॥ 4. तम् Bखं.J नास्ति // 5-6. J खं.०क्खिल्ल० मु.॥