________________ सूत्र - 46] संसारस्वरूपम् 79 कर्मधारयोऽतस्तम्, 'अवमाणण-फेण-तिव्वखिसण-पुलंपुर्लप्पभूय-रोगवेअण-परिभवविणिवाय-फरुसधरिसणा-समावडिय-कढिणकर्मपत्थर-तरंग-रंगंत-निच्चमच्चु-भयतोयपटुं' अपमाननमेव-अपूजनमेव फेनो यत्र स तथा, तीव्रखिसनं च-अत्यर्थनिन्दा पुलम्पुलप्रभूता-अनवरतोद्भूताः या रोगवेदना:, पाठान्तरे तीव्रखिस प्रलुम्पनानि च प्रभूतरोगवेदनाश्च परिभवविनिपातश्च-पराभिभवसम्पर्कः परुषधर्षणाश्च-निष्ठुरवचननिर्भर्त्सनानि समापतितानि-समापन्नानि बद्धानि यानि कठिनानि-कर्कशोदयानि कर्माणि-ज्ञानावरणादीनि तानि चेति द्वन्द्वः, तत एतान्येव ये प्रस्तराः-पाषाणास्तैः कृत्वा तरङ्गै रङ्गद्-वीचिभिश्चलत् नित्यंध्रुवं मृत्युभयमेव-मरणभीतिरेव तोयपृष्ठं-जलोपरितनभागो यत्र स तथा, ततः कर्मधारयः, अथवा अपमानफेनमिति तोयपृष्ठस्य विशेषणम्, अतो बहुव्रीहिरेवातस्तं, 'कसायपायालसंकुलं' कषाया एव पाताला:-पातालकलशास्तैः सङ्कुलो यः स तथा तं, 'भवसयसहस्सकलुसजलसंचयं' भवशतसहस्राण्येव कलुषो जलानां सञ्चयो यत्र स तथा तं, पूर्वं जननादिजन्यदुःखस्य सलिलतोक्ता इह तु भवानां जननादिधर्मवतां जलविशेषसमुदायतोक्तेति न पुनरुक्तत्वमिति, ‘पइभयं'ति व्यक्तं, 'अपरिमिअमहेच्छ कलुसमइवाउवेग-उद्धम्ममाणदगरयरयंधकार-वरफेण-पउर-आसापिवास-धवलं' अपरिमिता-अपरिमाणा ये महेच्छाबृहदभिलाषा लोकास्तेषां कलुषा-मलिना या मतिः सैव वायुवेगेन उद्धम्ममाणं उद्धव्वमाणं वा-उत्पाद्यमानं यदुदकरजः-उदकरेणुसमूहस्तस्य रयोवेगस्तेनान्धकारो यः स तथा, वरफेनेनेव प्रचुराशापिपासाभिस्तत्र प्रचुरा-बय आशा:-अप्राप्तार्थानां प्राप्तिसम्भावनाः पिपासास्तुतेषामेवाकांक्षा अतस्ताभिर्धवल इव धवलो यः स तथा, ततः कर्मधारयः, अतस्तं, 'मोहमहावत्त-भोगभममाण-गुप्पमाणुच्छलंत-पच्चोनिवयंतपाणिय-पमायचंडबहुदुट्ठसावयसमाहयुद्धायमाणपब्भार-घोरकंदियमहारव-रवंत-भेरवरवं' मोहरूपे महावर्ते भोगरूपं भ्राम्यत्-मण्डलेन भ्रमद्-गुप्यत्-व्याकुलीभवदुच्छलत्-उत्पतत् प्रत्यवनिपतच्च-अधःपतत् पानीयं-जलं यत्र स तथा, 'प्रमादा'-मद्यादयस्त एव चण्डबहुदुष्टश्वापदाः-रौद्रभूरिक्षुद्रव्यालास्तैर्ये समाहता:-प्रहता उद्धावन्तश्च-उत्तिष्ठन्तो वा विविधं चेष्टमानाः समुद्रपक्षे मत्स्यादयः संसारपक्षे पुरुषादयस्तेषां प्राग्भारः पूरो वा समूहो यत्र स तथा, तथा घोरो यः क्रन्दितमहारवः स एव रवन्-प्रतिशब्दकरणतः शब्दायमानो भैरवरवो-भीमघोषो यत्र स तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तम् / १.०पभूय० खं. // २.०पत्थकरंगरंगंतनिच्चसव्वभय० B // 3. प्रलपनानि-पुप्रे. पार्श्वभागे / 4. रङ्गवत् - खं. // 5-6-7. खं. B | उद्धं० मु. // 8. पच्चोणियत्तपा० मु. / ०च्योणियंतपा० B | 0 च्चोनिवयत्तपा० खं. //