________________ 78 श्री औपपातिकसूत्रम् 'निव्वेयणीओ'त्ति निर्वेद्यते संसारनिविण्णो विधीयते श्रोता यकाभिस्ता निदिन्यः, तथा 'उडुंजाणू अहोसिर 'त्ति शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया अभावाच्चोत्कुटुकासनाः सन्तोऽपदिश्यन्ते-ऊर्ध्वं जानुनी येषां ते 'ऊर्ध्वजानवः, अधःशिरसो-अधोमुखा, नोर्ध्वं तिर्यग्वा क्षिप्तदृष्टय इत्यर्थः, 'झाणकोट्ठोवगय'त्ति ध्यानरूपो यः कोष्ठस्तमुपागता ये ते तथा, ध्यानकोष्ठप्रवेशनेन संवृतेन्द्रियमनोवृत्तिधान्या इत्यर्थः, संयमेन तपसाऽऽत्मानं भावयन्तों विहरन्तीति / / 45 // 46 - संसारभउव्विग्गा भीया जम्मण-जर-मरण-करण-गंभीरदुक्ख-पक्खुभित-पउर-सलिलं संजोग-वियोग-वीची-चिंता-पसंगपसरिय-वह-बंध-महल्ल-विपुल-कल्लोल-कलुण-विलविय-लोभकलकलेत-बोलबहुलं अवमाणण-फेण-तिव्वखिंसणा-पुलंपुलप्पभूयरोगवेयण-परिभव-विणिवाद-फरुसधरिसणा-समावडिय-कढिणकम्मपत्थर-तरंग-रंगंत-निच्चमच्चुभय-तोयपटुं कसाय-पायाल-संकुलं भवसयसहस्स-कलुसजल-संचयं पतिभयं अपरिमितमहिच्छ-कलुसमइवाउ- वेगउद्धम्ममाणदगरयरयंधकार-वरफेण-पउर-आसापिवास-धवलं मोहमहावत्तभोगभममाण-गुप्पमाणुच्छलंत-पच्चोणिवयंतपाणिय-पमायचंडबहुदुट्ठसावय-समाहयुद्धायमाणपब्भार-घोरकंदियमहारव-रवंत-भेरवरवं [46] प्रकारान्तरेण स एवोच्यते-'संसारभउद्विग्ग'त्ति प्रतीतं 'जम्मण-जर-मरणकरण-गंभीर-दुक्ख-पक्खुब्भिय-पउरसलिलं' जन्मजरामरणान्येव करणानि-साधनानि यस्य तत्तथा, तच्च तद्गम्भीरदुःखं च तदेव प्रक्षुभितं-प्रचलितं प्रचुरं-प्रभूतं सलिलं-जलं यत्र स तथा तं, संसारसागरं तरन्तीति योगः, 'संजोग-विओग-वीइ-चिंता-पसंग-पसरिय-वहबंध-महल्ल विपुल-कल्लोल-कलुण-विलविय-लोभकलकलिंत-बोलबहुलं' संयोगवियोगा एव वीचयः-तरङ्गा यत्र स तथा, चिन्ताप्रसङ्गः-चिन्तासातत्यमित्यर्थः स एव प्रसृतं-प्रसरो यस्य स तथा, वधाः-हननानि, बन्धाः-संयमनानि तान्येव महान्तो-दीर्घा विपुलाश्च-विस्तीर्णाः कल्लोला-महोर्मयो यत्र स तथा, करुणानि विलपितानि यत्र स तथा, स चासौ लोभश्च, स एव कलकलायमानो यो बोलो-ध्वनिः स बहुलो यत्र स तथा, ततः संयोगादिपदानां 1. औ@ B // 2. B I विपुल० पुरे. // 3. V |सणगुलुगुलप(ब )भूयः BJI सणपच्चुप्पन्नपभूय० पु प्रे.. / / 4. खं.. | 0 उद्धुम्म० मु. / 0 उद्बुद्धo BJ ||