________________ 75 सूत्र - 43] ध्यानस्वरूपम् शेषपदान्यपि, नवरम् अपायाः-रागद्वेषादिजन्या अनर्थाः, विपाकः- कर्मफलं, संस्थानानिलोकद्वीपसमुद्राधाकृतयः। ‘आणारुइ'त्ति नियुक्त्यादिश्रद्धानं 'णिसग्गरुइ'त्ति स्वभावत एव तत्त्वश्रद्धानम् ‘उवएसरुइ'त्ति साधूपदेशात्तत्त्वश्रद्धानं 'सुत्तरुइ'त्ति आगमात्तत्त्वश्रद्धानम् 'आलंबण'त्ति आलम्बनानि धर्मध्यानसौधशिखरारोहणार्थं यान्यालम्ब्यन्ते-आश्रीयन्ते तान्यालम्बनानि-वाचनादीनि, अनित्यत्वा-ऽशरणत्वैकत्व-संसारानुप्रेक्षाः प्रतीताः / सुक्के झाणे चउव्विहे चउप्पडोयारे पण्णत्ते, तं जहा-पुहत्तवियक्के सविचारी, एगत्तवियक्के अवियारी, सुहुमकिरिए अप्पडिवाई, समुच्छिन्नकिरिए अनियट्टी। सुक्कस्स णं झाशस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-विवेगे, विउस्सग्गे, अव्वहे, असंमोहे / सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहाखंती, मुत्ती, अज्जवे, मद्दवे / सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तं जहा-अवायाणुप्पेहा, असुभाणुप्पेहा, अणंतवित्तियाणुप्पेहा विप्परिणामाणुप्पेहा / से तं झाणे // 43 // 'पुहुत्तवियक्के सवियारी 'त्ति पृथक्त्वेन-एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को-विकल्प: पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत् पृथक्त्ववितर्कं, तथा विचार:-अर्थाव्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यतरस्मिन् विचरणं सह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः, तथा 'एगत्तवियक्के अवियारी'त्ति एकत्वेन-अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्थः, वितर्क:-पूर्वगतश्रुताश्रयो 1. अत्र द्वे परम्परे उपलभ्यते / प्रस्तुतसूत्रे उत्तराध्ययने (29-73) च सूक्ष्मक्रिय-अप्रतिपाति समुच्छिन्नक्रियअनिवृत्ति इति पाठो लभ्यते / स्थानाङ्गे(४-६९) भगवत्यां (25-609) च सूक्ष्मक्रिय-अनिवृत्ति समुच्छिन्नक्रिय अप्रतिपाति इति पाठो दृश्यते / उत्तरवर्तिग्रन्थेषु प्राय: प्रस्तुतसूत्रपरम्परैव अनुसृता दृश्यते // " इति V पृ.२७ टि.२ // 2. "भगवत्यां (25/610, 611) शुक्लध्यानस्य लक्षणानां आलम्बनानां च व्यत्ययो लभ्यते-सुक्कस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-खंती, मुत्ती, अज्जवे, मद्दवे / सुक्कस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता, तं जहा - अव्वहे, असंमोहे, विवेगे, विउस्सग्गे / असौ व्यत्ययश्च चिन्तनीयोऽस्ति / स्थानाङ्गे (4/70,71) उत्तरवर्तिसाहित्ये च सर्वत्रापि प्रस्तुतसूत्रसम्मता परम्परा अनुस्यूतास्ति ।"इति V पृ.२७ टि.३।। 3. अमणुण्णव० खं. // 4. पुहत्तं० खं. //