________________ श्री औपपातिकसूत्रम् व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्कं, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादित्यत्र तथा मनःप्रभृतीनामन्यतरस्मादयंत्र यस्य तदविचारीति, 'सुहुमकिरिए अप्पडिवाई 'त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत् सूक्ष्मक्रियम्, अप्रतिपाति-अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वाद्, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति, 'समुच्छिन्नकिरिए अणियट्टी 'त्ति समुच्छिन्ना-क्षीणा क्रिया-कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अनिवर्ति-अव्यावर्तनस्वभावमिति / 'विवेगे'त्ति देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनं-बुद्ध्या पृथक्करणं विवेकः, 'विउस्सग्गे'त्ति व्युत्सर्गो-निःसङ्गतया देहोपधित्यागः 'अव्वहे 'त्ति देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं 'असंमोहे'त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च सम्मोहस्य-मूढताया निषेधोऽसम्मोहः, / 'अवायाणुप्पेह'त्ति अपायानां-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा 'असुभाणुप्पेह'त्ति संसाराशुभत्वानुचिन्तनम् 'अणंतवत्तियाणुप्पेह'त्ति भवसन्तानस्यानन्तवृत्तिताऽनुचिन्तनं 'विपरिणामाणुप्पेह'त्ति वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति / / 43 // 44- से किं तं विउस्सग्गे ? विउस्सग्गे दुविहे पण्णत्ते, तं जहादव्वविउस्सग्गे य भावविउस्सग्गे य / से किं तं दव्वविउस्सग्गे ? दव्वविउस्सग्गे चउव्विहे पण्णत्ते तं जहा-सरीरविउस्सग्गे गणविउस्सग्गे उवहिविउस्सग्गे भत्तपाणविउस्सग्गे / से तं दव्वविउस्सग्गे / से किं तं भावविउस्सग्गे ? भावविउस्सग्गे तिविहे पण्णत्ते, तं जहा-कसायविउस्सग्गे, संसारविउस्सग्गे, कम्मविउस्सग्गे / से किं तं कसायविउस्सग्गे ? कसायविउस्सग्गे चउव्विहे पण्णत्ते, तं जहा-कोहकसायविउस्सग्गे, माणकसायविउस्सग्गे, मायाकसायविउस्सग्गे लोभकसायविउस्सग्गे / से तं कसायविउस्सग्गे। ___ से किं तं संसारविउस्सग्गे ? संसारविउस्सग्गे चउव्विहे पण्णत्ते, तं जहा-नेरइयसंसारविउस्सग्गे, तिरियसंसारविउस्सग्गे, मणुयसंसारविउस्सग्गे, देवसंसारविउस्सग्गे / से तं संसारविउस्सग्गे / 1. खं. / स्मादितरत्र-मु. // २.०दन्यत्र-B नास्ति / /