________________ 74 श्री औपपातिकसूत्रम् अट्टस्स णं झाणस्स चत्तारि लक्खणा पण्णत्ता, तं जहा-कंदणया सोयणया तिप्पणया 'विलवणता / रोद्दे झाणे चउव्विहे पण्णत्ते, तं जहाहिंसाणुबंधी, मोसाणुबंधी, तेणाणुबंधी, सारक्खणाणुबंधी / रुद्दस्स णं झाणस्स चत्तारि लक्खणा पन्नत्ता, तं जहा-ओस्सण्णदोसे, बहुदोसे, अन्नाणदोसे, आमरणंतदोसे / 'कंदणय'त्ति महता शब्देन विरवणं 'सोयणय'त्ति दीनता, 'तिप्पयण'त्ति तेपनता तिपेः क्षरणार्थत्वादश्रुविमोचनं, विलपनता-पुनः पुनः क्लिष्टभाषणमिति, 'उसन्नदोसे 'त्ति उसन्नेनबाहुल्येनानुपरतत्वेन दोषो-हिंसाऽनृता-ऽदत्तादानसंरक्षणानामन्यतमः उसण्णदोषः, तथा 'बहुदोसे 'त्ति बहुष्वपि सर्वेष्वपि हिंसादिषु 4 दोष:-प्रवृत्तिलक्षणो बहुदोष: 'अण्णाणदोसे 'त्ति अज्ञानात् कुशास्त्रसंस्काराद्धिसादिष्वधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोष: अज्ञानदोषः, 'आमरणंतदोसे 'त्ति मरणमेवान्तो मरणान्तः आ मरणान्तात् आमरणान्तम्, असञ्जातानुतापस्य कालसौकरिकादेरिव या हिंसादिषु 4 प्रवृत्तिः सैव दोषः आमरणान्तदोषः, इह चार्तरौद्रे परिहार्यतया साधुविशेषणे धर्मशुक्ले त्वासेव्यतयेति / धम्मज्झाणे चउव्विहे चउप्पडोयारे पण्णत्ते, तं जहा-आणाविजए, अवायविजए, विवागविजए संठाणविजए / धम्मस्स णं झाणस्स चत्तारिलक्खणा पण्णत्ता तं जहा-आणारुई, निसग्गरुई, उवदेसरुई, सुत्तरुई। धम्मस्स णं झाणस्स चत्तारि आलंबणा पण्णत्ता तं जहा-वायणा, पुच्छणा, परियट्टणा, धम्मकहा / धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, तं जहा-अणिच्चाणुप्पेहा, असरणाणुप्पेहा, एगत्ताणुप्पेहा, संसाराणुप्पेहा। 'चउप्पडोयारे'त्ति चतुर्पु-भेदलक्षणालम्बनानुप्रेक्षालक्षणेषु पदार्थेषु प्रत्यवतार:-समवतारो वक्ष्यमाणस्वरूपो यस्य तच्चतुष्प्रत्यवतारमिति / 'आणाविजय'त्ति आज्ञा-जिनप्रवचनं तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयं, प्राकृतत्वादाणाविजयं, आज्ञागुणानुचिन्तनमित्यर्थः, एवं 1. "परिदेवणता (ठाणं 4-92) परिदेवणया (भगवती० 25-602)" इति V पृ. 26 टि. 4 // 2-3. उस्स० खं. // 4. ०शौकरका० खं. / 5. B मु.। "सुत्तरुई ओगाढरुई(ठाणं 4-66) सुत्तरुयी ओगाढरुयी (भ.२५-६०६) स्थानाङ्गे भगवत्यां च ‘उवएसरुई' पदस्य स्थाने 'आगाढरुई' इति पदं लभ्यते / उत्तराध्ययने (28-16) स्थानाङ्गस्य दशमे(१०४) स्थाने 'उवएसरुई' इत्येव लभ्यते / भगवत्याम् अवगाढरुचेर्यो वैकल्पिको र्थः कृतस्तेन अनयोर्द्वयोः पदयोरेकार्थत्वमवसीयते - अथवा 'ओगाढ'त्ति साधुप्रत्यासन्नीभूतस्य साधूपदेशाद् रुचिरवगाढरुचिः।" इति V पृ. 26- टि. 8 // 6. द्रष्टव्यं- (ठाणं 4-68) भ.२५-६०८) //