________________ सूत्र - 34-36 ] विविधतप:स्वरूपादिः निधिकः, 'परिमियपिंडवाइए'त्ति परिमितपिण्डपात:- अर्द्धपोषादिलाभो यस्यास्ति स तथा, 'सुद्धेसणिए 'त्ति शुद्धषणा शङ्कादिदोषरहितता शुद्धस्य वा निर्व्यञ्जनस्य कूरादेरेषणा यस्यास्ति स तथा, 'संखादत्तिए'त्ति सङ्ख्याप्रधाना दत्तयो यस्य स तथा, दत्तिश्च एकक्षेपभिक्षालक्षणा // 34 // ___35 - से किं तं रसपरिच्चाए ? रसपरिच्चाए अणेगविहे पण्णत्ते, तं जहानिव्वीतिए पणीतरसपरिच्चाए, आयंबिलए, आयामसित्थभोई, अरसाहारे, विरसाहारे, अंताहारे, पंताहारे, लूहाहारे, से तं रसपरिच्चाए // 35 // [35] 'निव्वियतिए'त्ति निर्गतघृतादिविकृतिकः, 'पणीयरसपरिच्चाई' प्रणीतरसं गलघृतदुग्धादिबिन्दुः, 'आयंबिलए'त्ति आचाम्लम्-ओदन-कुल्माषादि, 'आयामसित्थभोइ 'त्ति अवश्रावणगतंसिक्थभोक्ता 'अरसाहारे 'त्ति अरसो-हिङ्ग्वादिभिरसंस्कृत आहारो यस्य स तथा, 'विरसाहारे 'त्ति विगतरसः- पुराणधान्यौदनादिः, 'अंताहारे 'त्ति अन्ते भवमन्त्यंजघन्यधान्यं वल्लादि, 'पंताहारे 'त्ति प्रकर्षेणान्त्यं वल्लाद्येव भुक्तावशेषं पर्युषितं वा, 'लूहाहारे 'त्ति रूक्षं-रूक्षस्वभावं, क्वचित् 'तुच्छाहारे 'त्ति दृश्यते तत्र तुच्छोऽल्पोऽसारश्च // 35 // _____36 - से किं तं कायकिलेसे ? कायकिलेसे अणेगविहे पण्णत्ते, तं जहा-ठाणट्ठितिए, उक्कुडुयासणिए, पडिमट्ठाई, वीरासणिए, नेसज्जिए, दंडायए, लगंडसाई, आयावए, अवाउडए, अकंडुयए, अनिलृहए, धुयकेसमंसुलोमे सव्वगातपंरिकम्म-विभूसविप्पमुक्के / से तं कायकिलेसे // 36 // [36] . 'ठाणट्ठिइए'त्ति स्थानं-कायोत्सर्गस्तेन स्थितिर्यस्य स स्थानस्थितिकः, पाठान्तरेण 'ठाणाइए'त्ति स्थानं-कायोत्सर्गस्तमतिगच्छति-करोतीति स्थानातिगः 'उक्कुडुयासणिए 'त्ति प्रतीतं 'पडिमट्ठाई 'त्ति प्रतिमा-मासिक्यादयः, 'वीरासणिए 'त्ति वीरासनंसिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनापनोदे यादृशमवस्थानं तद्यस्यास्ति स वीरासनिकः, 'नेसज्जिए'त्ति निषद्या-पुतभ्यां भूम्यामुपवेशनं तया चरति नैषधिकः, 'दंडायए लगंडसाई 'त्ति क्वचिद् दृश्यते तत्र दण्डस्येवायतम्-आयामो यस्यास्ति स दण्डायतिक: लगण्डं-वक्रकाष्ठं तद्वच्छेते यः स लगण्डशायी तस्य पाष्णिका-शिरांस्येव पृष्ठमेव वा भूमौ लगतीति, 'आयावए'त्ति 1. V | आयामसुद्ध० / पुप्रे. / आयामसिद्धिo BJ || 2. "ठाणाइए। (ग, वृपा) ठाणातिएL (ठाणं 5/42) ठाणादीए (भग. 25-571)" इति / पृ.२३ टि.३।' // 3. धुयकेसमंसलोए-पुप्रे. / धुयकेसमंसलोमे LB मु-VJनास्ति // ४.०पडिकम्म० इति भगवतीसूत्रे 25/7/210 // 5. ठाणातिए - पु प्रे. स्थानांगे 5 / 42 / ठाणादीए-भगवती. 25 / 581 6. उक्कुडीसणिए B|| 7. ०वइत्ति खं. //