________________ श्री औपपातिकसूत्रम् वट्टिज्जमाणचरए साहरिज्जमाणचरए, उवणीयचरए, अवणीयचरए, उवणीय-अवणीयचरए, अवणीयउवणीतचरए, संसठ्ठचरए, असंसट्टचरए, तज्जात-संसट्टचरए, अन्नायचरए, मोणचरए, दिट्ठलाभिए, अदिट्ठलाभिए, पु?लाभिए, अपुटुलाभिए, भिक्खलाभिए, अभिक्खलाभिए, अन्नगिलायए, ओवनिहिए, परिमितपिंडवातिए, सुद्धेसणिए, संखादत्तिए। से तं भिक्खायरिया // 34 // 'वट्टिज्जमाणचरए'त्ति परिवेष्यमाणचरकः ‘साहरिज्जमाणचरए'त्ति यत् कूरादिकं शीतलीकरणार्थं पटादिषु विस्तारितं तत्पुनर्भाजने क्षिप्यमाणं संहियमाणमुच्यते, 'उवणीयचरए'त्ति उपनीतं केनचित्कस्यचिदुपढौकितं प्रहेणकादि, 'अवणीयचरए'त्तिं अपनीतं देयद्रव्यमध्यादपसारितमन्यत्र स्थापितमित्यर्थः, 'उवणीयावणीयचरए'त्ति उपनीतं' ढौकितं सत् प्रहेणकाद्यपनीतं स्थानान्तरस्थापितं अथवोपनीतं चापनीतं च यश्चरति स तथा, अथवा उपनीतं-दायकेन वर्णितगुणम् अपनीतं-निराकृतगुणम् उपनीतापनीतं यदेकेन गुणेन वर्णितं गुणान्तरापेक्षया तु दूषितं, यथाऽहो शीतलं जलं केवलं क्षारंमिति, यत्तु क्षारं किन्तु शीतलं तदपनीतोपनीतमुच्यत इति, अत आह-अवणीयउबणीयचरए'त्ति, 'संसट्टचरए'त्ति संसृष्टेन-खरण्टितेन हस्तादिना दीयमानं संसृष्टमुच्यते तच्चरति ' यः स तथा, 'असंसट्ठचरए'त्ति उक्तविपरीतः, 'तज्जायसंसट्ठचरए'त्ति तज्जातेन देयद्रव्याविरोधिना यत् संसृष्टं हस्तादि तेन दीयमानं यश्चरति स तथा, 'अण्णायचरए'त्ति अज्ञात:-अनुपदर्शितस्वाजन्यादिभावः संश्चरति यः स तथा, 'मोणचरए'त्ति व्यक्तं, 'दिट्ठलाभिय'त्ति दृष्टस्यैव भक्तादेर्दृष्टाद्वा पूर्वोपलब्धादायकाल्लाभो यस्यास्ति स दृष्टलाभिकः, 'अदिठ्ठलाभिए'त्ति तत्रादृष्टस्यापि अपवरकादिमध्यान्निर्गतस्य श्रोत्रादिभिः कृतोपयोगस्य भक्तादेरदृष्टाद्वा पूर्वमनुपलब्धादायकाल्लाभो यस्यास्ति स तथा, 'पुटुलाभिए 'त्ति पृष्टस्यैव हे साधो ! किं ते दीयते? इत्यादिप्रश्चितस्य यो लाभ: स यस्यास्ति स तथा, 'अपुटुलाभिए 'त्ति उक्तविपर्ययादिति, 'भिक्खलाभिए'त्ति भिक्षेव भिक्षा तुच्छमविज्ञातं वा तल्लाभो ग्राह्यतया यस्यास्ति स भिक्षालाभिकः, अभिक्खलाभिए'त्ति उक्तविपर्ययात्, 'अन्नगिलायए'त्ति अन्नं-भोजनं विना ग्लायति अन्नग्लायकः, स चाभिग्रहविशेषात् प्रातरेव दोषान्नभुगिति, ओवनिहिए 'त्ति उपनिहितं यथा कथञ्चित् प्रत्यासन्नीभूतं तेन चरति यः स औपनिहितिकः, उपनिधिना वा चरतीत्यौप१. BJ / साहिज्ज० पुप्रे. // 2. संहूय०खं.॥ 3. B खं ।०तं विनीतं ढौ०मु. // 4. यस्य स -खं.।। ५.तुच्छमव० खं //