SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ सूत्र - 33-34] विविधतपोऽभिग्रहादिः षोडश, एवं च द्वादशानामर्द्धसमीपवर्तित्वादुपार्द्धाऽवमोदरिका द्वादशभिरिति, 'दुभागोमोयरिय'त्ति द्वात्रिंशत: षोडश द्विभागोऽर्द्धमित्यर्थः, ततः षोडशकवलमाना द्विभागावमोदरिकेत्युच्यते, पत्तोमोयरिय'त्ति चतुर्विंशतः कवलानां द्वात्रिंशद्वितीयार्द्धस्य मध्यभागं प्राप्तत्वाच्चतुर्विंशत्या कवलैः प्राप्तावमोदरिकेत्युच्यते, अथवा प्राप्तेव प्राप्ता द्वात्रिंशतस्त्रयाणां भागानां प्राप्तत्वाच्चतुर्थभागस्य चाप्राप्तत्वादिति, किंचूणओमोयरिय'त्ति एकत्रिंशतो द्वात्रिंशत एकेनोनत्वात्, ‘पमाणपत्ते 'त्ति द्वात्रिंशता कवलैः प्राप्तप्रमाणो भवति साधुन न्यूनोदर इति, 'इत्तो 'त्ति इतो द्वात्रिंशत्कवलमानादेकेनापि घासेणं 'त्ति ग्रासेन 'नो पकामरसभोइत्ति वत्तव्वं सिया' इति नात्यर्थमन्नभोक्तेति वाच्यं स्यादिति, 'अप्पसद्दे 'त्ति अल्पकलह इत्यर्थः, कलह:-क्रोधकार्यम् 'अप्पझंझे 'त्ति अल्पझञ्झः- अविद्यमानकलहविशेषः, अल्पशब्दश्चाभाववचनोऽप्यस्ति // 33 // 34 - से किं तं भिक्खायरिया ? भिक्खायरिया अणेगविहा पन्नत्ता, तं जहा-दव्वाभिग्गहचरए खेत्ताभिग्गहचरए, कालाभिग्गहचरए, भावाभिग्गहचरए, उक्खित्तचरए, निक्खित्तचरए उक्खित्तणिक्खित्तचरए, निक्खित्तउक्खित्तचरए, [34] 'दव्वाभिग्गहचरए'त्ति द्रव्याश्रिताभिग्रहेण चरति-भिक्षामटति द्रव्याश्रिताभिग्रहं वा चरति-आसेवते यः स द्रव्याभिग्रहचरकः, इह च भिक्षाचर्यायां प्रक्रान्तायां यद् द्रव्याभिंग्रहचरक इत्युक्तं तद्धर्म-धर्मिणोरभेदविवक्षणात्, द्रव्याभिग्रहश्च लेपकृतादिद्रव्यविषयः क्षेत्राभिग्रह:-स्वग्राम-परग्रामादिविषयः, कालाभिग्रहः-पूर्वाह्लादिविषयः, भावाभिग्रहस्तु गानहसनादिप्रवृत्तपुरुषादिविषयः, 'उक्खित्तचरए'त्ति उत्क्षिप्तं-स्वप्रयोजनाय पाकभाजनादुद्धृतं तदर्थमभिग्रहतश्चरति-तद्गवेषणाय गच्छतीत्युत्क्षिप्तचरकः, एवमुत्तरत्रापि, 'निक्खित्तचरए'त्ति निक्षिप्तं-पाकभाजनादनुद्धृतम् 'उक्खित्तनिक्खित्तचरए'त्ति पाकभाजनादुत्क्षिप्य निक्षिप्तं तत्रैवान्यत्र वा स्थाने यत्तदुत्क्षिप्तनिक्षिप्तम् अथवोत्क्षिप्तं च निक्षिप्तं च यश्चरति स तथोच्यते 'निक्खित्तउक्खित्तचरए'त्ति निक्षिप्तं भोजनपात्र्यामुत्क्षिप्तं च स्वार्थं तत एव निक्षिप्तोत्क्षिप्तं, 1. घंसेणं Bखं / / श्री औप. 9
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy