________________ श्री औपपातिकसूत्रम् आतापयति-शीतादिभिर्देहं सन्तापयतीत्यातापकः, आतापना च त्रिविधा भवति'निषन्नस्योत्कृष्टाऽनिषन्नस्य मध्यमा, ऊर्ध्वस्थितस्य जघन्या, निषन्नातापनाऽपि त्रिधाअधोमुखशायिता 1 पार्श्वशायिता 2 उत्तानशायिता चेति 3 अनिषन्नातापनाऽपि त्रिधा-गोदोहिका उत्कुटुकासनता पर्यङ्कासनता चेति, ऊर्ध्वस्थानाऽऽतापनाऽपि त्रिधैव-हस्तिशौण्डिका एकपादिका समपादिका चेति, एतेषु चातापनाभेदत्रितयेषु उत्कृष्टादित्रयं प्रत्येकं योजनीयमिति, अवाउडए'त्ति अप्रावृतक: प्रावरणवर्जक इत्यर्थः, अकण्डूयका-ऽनिष्ठीवको व्यक्तौ, 'धुयकेसमंसुलोम'त्ति क्वचिद्दृश्यते, तत्र धुतानि-निष्प्रतिकर्मतया त्यक्तानि केश-श्मश्रु-रोमाणि-शिरोजकूर्चकक्षादिलोमानि येन स तथा, किमुक्तं भवति ? - सर्वगात्रप्रतिकर्मविभूषाविप्रमुक्त इति !!36|| 37- से किं तं पडिसंलीणया ? पडिसंलीणया चउव्विहा पन्नत्ता, तं जहा-इंदियपडिसंलीणया, कसायपडिसंलीणता, जोगपडिसंलीणता, विवित्तसयणासणसेवणता / ___ से किं तं इंदियपडिसंलीणता ? इंदियपडिसंलीणता पंचविहा पण्णत्ता, तं जहा- सोइंदियविसयप्पगारनिरोधो वा सोइंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा, चक्खिदियविसयप्पयारनिरोहो वा, चक्खिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा, घाणिदियविसयप्पयारनिरोहो वा घाणिंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा, जिब्भिदियविसयप्पयारनिरोहो वा जिब्भिदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा, फासिंदियविसयप्पयारनिरोहो वा फासिंदियविसयपत्तेसु अत्थेसु रागदोसनिग्गहो वा / से तं इंदियपडिसंलीणया / [37] 'सोइंदियविसयप्पयारनिरोहो वत्ति श्रोत्रेन्द्रियस्य विषये-शब्दे प्रचारस्यप्रवृत्तेनिरोधो-निषेधः श्रोत्रेन्द्रियविषयप्रचारनिरोधः, स च 'सोइंदियविसयपत्तेसु अत्थेसु'त्ति श्रोत्रेन्द्रियगोचरप्राप्तेष्वर्थेषु-शब्देषु कर्णप्रविष्टेष्वित्यर्थः / 1. B खं. / निष्प० मु. एवमग्रेऽपि /