________________ 62 श्री औपपातिकसूत्रम् A अंडए ति वा बोंडए ति वा उग्गहिते ति वा पग्गहिएति वा जण्णं जण्णं दिसं इच्छंति तण्णं तण्णं दिसं अप्पडिबद्धा सुभि( इ)भूया लहुभूया अणप्पगंथा संजमेणं तवसा अप्पाणं भावमाणा विहरंतिA // 29 // गमान्तं यावदिदं पठ्यते-'अंडए इ वा' अण्डजो-हंसादिः, अण्डकं वा-मयूराण्डकादिः, क्रीडामयूरादिहेतुरिति वा प्रतिबन्धः स्यात्, सप्तम्येकवचनान्तं चेदं व्याख्येयम्, इकारस्तु प्राकृतप्रभवः, 'पोयए इवा' पोतजो-हस्त्यादिः, पोतको वा शिशुरिति वा प्रतिबन्धः स्यात्, 'अंडजे इ वा बोंडजे इ वे'त्यत्र पाठान्तरे अण्डजं-वस्त्रं कोशिकारकीटाण्डकप्रभवं बोण्डजं-कासीफलप्रभवं वस्त्रमेव, 'उग्गहिए इ वा' अवगृहीतं-परिवेषणार्थमुत्पाटितं भक्तपानं 'पग्गहिए इ वा' प्रगृहीतं भोजनार्थमुत्पाटितं तदेव, अथवा अवग्रहिक-अवग्रहोऽस्यास्तीत्यवग्रहिकं वसति-पीठ-फलकादिकम् औपग्रहिकं वा दण्डकादिकमुपधिजातं, प्रगृहीतं तु प्रकर्षण गृहीतत्वादौघिकमिति, 'जण्णं जण्णं दिसं'ति णङ्कारस्य वाक्यालङ्कारार्थत्वाद्यां यां दिशमिच्छन्ति विहर्तुमिति शेषः, 'तं णं तं णं'ति तां तां दिशं विहरन्तीति योगः, 'सुइभूय'त्ति शुचिभूताः-भावशुद्धिमन्तः श्रुतिभूता वा-प्राप्तसिद्धान्ताः, 'लघुभूय'त्ति अल्पोपधितया गौरवत्यागाच्च, अथवा लघुभूतो वायुस्तद्वत् ये सततविहारास्ते लघुभूताः, "अणप्पगंथा' अनल्पग्रन्थाः-बह्वागमाः अविद्यमानो वा आत्मनः सम्बन्धी ग्रन्थोहिरण्यादिर्येषां ते तथा, अनर्घ्यग्रन्था वा भावधनयुक्ता इत्यर्थः // 29 // ,. 30- तेसि णं भगवंताणं एतेणं विहारेणं विहरमाणाणं इमे एतारूवे सब्भितर-बाहिरए तवोविहाणे होत्था, तं जहा-अभितरए छव्विहे बाहिरए वि छव्विहे // 30 // ___ [30] अथ साधुवर्णकः प्रकारान्तरेणोच्यते स च 'तेसि ण'मित्यादि से तं भावविउस्सग्गे' इत्येतदन्तः अनशनादितपोभेदप्रतिपादनपरः सुगम एव, नवरं वाचनान्तरे 'जायामायावित्ति'त्ति संयमयात्रामात्रार्थं वृत्तिः-भक्तग्रहणं यात्रामात्रावृत्तिः ‘अदुत्तरं वत्ति अथापरं पुनरित्यर्थः। तथाऽधिकृतवाचनायाम् 'अब्भिंतरए'त्ति अभ्यन्तरस्यैव शरीरस्य तापनात्सम्यग्दृष्टिभिरेव तपस्तया प्रतीयमानत्वाच्च, 'बाहिरए'त्ति बाह्यस्यैव शरीरस्य तापनान्मिथ्यादृष्टिभिरपि तपस्तया प्रतीयमानत्वाच्चेति // 30 // 1. A चिह्नवयमध्यवर्तिपाठः / पु.प्रे अस्ति, BJ मु. V नास्ति // २.खं.॥ क्रीडादिम० मु.॥ ३.कोसिकारकीडाण्ड० ख।। 4. तणं तणं -खं // 5. अनर्घग्रन्था - B खं। 6. V | अभि० मु. // 7. ०यात्रार्थं - खं. // 8. खं.। अभ्यन्तरम्-आन्तरस्यैव-मु.।।