SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सूत्र - 27-29] भगवच्छिष्यस्वरूपम् 28 - नत्थि णं तेसिं भगवंताणं कत्थइ पडिबंधे से य पडिबंधे चउव्विहे भवति, तं जहा- दव्वतो खेत्ततो कालतो भावतो / दव्वतो सचित्ताचित्तमीसिएसु दव्वेसु, खेत्तओ गामे वा णगरे वा रण्णे वा खेत्ते वा खले वा घरे वा अंगणे वा, कालतो समए वा आवलियाए वा जाव अयणे वा अण्णतरे वा दीहकालसंजोगे भावतो कोहे वा माणे वा मायाए वा लोभे वा भए वा हासे वा एवं तेसिं न भवति // 28 // ___ [28] 'नत्थी'त्यादि, नास्ति तेषां भगवतामयं पक्षो यदुत कुत्रचिदपि प्रतिबन्धो भवतीति, तद्यथा-द्रव्यतः 4, द्रव्यत: सचित्तादिषु 3, क्षेत्रतो ग्रामादिषु 7, तत्र क्षेत्रंधान्यजन्मभूमिः खलं-धान्यमलनपवनादिस्थण्डिलं, शेषाणि व्यक्तानि, कालतः समयादिषु, तत्र समयः-सर्वनिकृष्टः कालः, आवलिका-असङ्ख्यातसमया यावत्करणादिदं दृश्यम्'आणापाणू वा' उच्छासनिःश्वासकाल इत्यर्थः, थोवे वा' सप्तप्राणमाने 'लवे वा' सप्तस्तोकमाने 'मुहुत्ते वा' लवसप्तसप्ततिमाने, अहोरात्र-पक्ष-मासाः प्रतीताः, 'अयनं' दक्षिणायनमितरच्च, अन्यतरे वा 'दीहकालसंजोए'त्ति वर्षशतादौ, भावतः क्रोधादिषु 6, ‘एवं तेसिं न भवइ'त्ति एवम्-अमुना प्रकारेण तेषां न भवति प्रतिबन्ध इति प्रकृतम् / / 28|| 29 - ते णं भगवंतो वासावासवज्जं अट्ठ गिम्ह-हेमंतियाणि मासाणि, गामे एगराइया, णगरे पंचराइया, वासीचंदणसमाणकप्पा, समलेठुकंचणा, समसुहदुक्खा, इहलोग-परलोगअप्पडिबद्धा, संसारपारगामी कम्मनिग्घायणट्ठाए अब्भुट्ठिया विहरति / [29] 'वासावासवज्जति वर्षासु-प्रावृषि वासो-निवासस्तद्वमित्यर्थः, 'गामे एगराइय'त्ति एकरात्रो वासमानतया अस्ति येषां ते एकरात्रिकाः, एवं नगरे पञ्चरात्रिका इति, एतच्च प्रतिमाकल्पिकानाश्रित्योक्तम्, अन्येषां मासकल्पविहारित्वादिति, 'वासीचंदणसमाणकप्प'त्ति वासी-चन्दनयोः प्रतीतयोरथवा वासी-चन्दने इव वासीचन्दनेअपकारकोपकारको तयोः समानो-निवृषरागत्वात्समः कल्पो-विकल्प: समाचारो वा येषां ते वासीचन्दनसमानकल्पाः, समलेढुकंचण'त्ति समे-तुल्ये उपेक्षणीयत्वाल्लेष्ठ-काञ्चने येषां ते तथा, 'समसुखे'त्यादि 'विहरंती'त्येतदन्तं व्यक्तम् / वाचनान्तरे पुनः 'तं जहा' इत्यतः परं
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy