________________ 60 श्री औपपातिकसूत्रम् गुत्तिदिया, पुक्खरपत्तं पिव निरुवलेवा, गगणमिव निरालंबणा, अणिलो इव निरालया, चंदो इव सोमलेसा, सूरो इव दित्ततेआ, सागरो इव गंभीरा, विहग इव विप्पमुक्का, मंदर इव अप्पकंपा, सारयसलिलं व सुद्धहियया, खग्गिविसाणं व एगजाया, भारुडपक्खी व अप्पमत्ता, कुंजरो इव सोंडीरा, वसभो इव जातथामा, सीहो इव दुद्धरिसा, वसुंधरा इव सव्वफासविसहा, सुहुतहुतासणो इव तेयसा जलंता // 27 // दिय'त्ति कच्छपो हि कदाचिद् ग्रीवापादलक्षणावयवपञ्चकेन गुप्तो भवति, एवमेतेऽपीन्द्रियपञ्चकेनेति, 'विहग इव विप्पमुक्क'त्ति मुक्तपरिकरत्वादनियतवासाच्च, 'खग्गिविसाणं व एगजाय'त्ति खड्गी-आटव्यो जीवस्तस्य विषाणं-शृङ्गं तदेकमेव भवति तद्वदेकजाताएकभूता रागादिसहायवैकल्यादिति, 'भारंडपक्खीव अप्पमत्त'त्ति भारण्डपक्षिणो: किलैकं शरीरं पृथग्ग्रीवं त्रिपादं च भवति, तौ चात्यन्तमप्रमत्ततयैव निर्वाहं लभेते इति तेनोपमा कृतेति, 'कुंजरो इव सोंडीरा' हस्तीव शूराः कषायादिरिपून् प्रतीत्येति, 'वसभो इव जायत्थामा' गौरिवोत्पन्नबलाः, प्रतिज्ञातकार्यभरनिर्वाहका इत्यर्थः, 'सीहो इव दुद्धरिसा' परीषहादिमृगैरनभिभवनीया इत्यर्थः, 'मंदरो इव अप्पकंपत्ति मेरुरिवानुकूलोपसर्गवायुभिरविचलितसत्त्वाः, 'सागरो इव गंभीर 'त्ति हर्षशोकादिकारणसम्पर्केऽप्यविकृतचित्ताः, 'चंदो इव सोमलेस्स'त्ति अनुपतापहेतुमनःपरिणामा: 'सूरो इव दित्ततेय'त्ति दीप्ततेजसो द्रव्यत: शरीरदीप्त्या भावतो ज्ञानेन, 'जच्चकणगमिव जायरूवा' जातं-लब्धं रूपं-स्वरूपं रागादिकुद्रव्यविरहात् यैस्ते जातरूपाः, 'वसुंधरा इव सव्वफासविसह'त्ति स्पर्शा:शीतोष्णादयो अनुकूलेतराः परीषहास्तान् सर्वान् विषहन्ते ये ते तथा, 'सुहुयहुयासणो इव तेअसा जलंता' सुष्ठ हुतं-क्षिप्तं घृतादि यत्र हुताशने-वह्नौ स तथा, तद्वत्तेजसा-ज्ञानरूपेण तपोरूपेण च ज्वलन्तो-दीप्यमानाः, पुस्तकान्तरे विशेषणानि सर्वाण्येतानीदं चाधिकम्'आदरिसफलगा इव पायडभावा' आदर्शफलकानीव-पट्टिका इव प्रतले विस्तीर्णत्वादा दर्शफलकानि तानीव प्रकटा-यथावदुपलभ्यमानस्वभावा भावा-आदर्शपक्षे नयनमुखादिधर्माः साधुपक्षे अशठतया मन:परिणामाः येषु ते प्रकटभावाः // 27 // 1. - V मु. / तेयंसी-पुप्रे. // 2. खग्ग० B खं. // 3. B खं / कुञ्जरो विव-खं.। कुञ्जरे विव - B // 4. सोमलेसत्ति-खं.॥ 5. विवे -खं.॥ 6. ०फलिगा-खं.। 7. आदर्शाः - खं // 8. प्रतलवि०खं.॥