________________ सूत्र - 26-27] अन्तेवासिस्वरूपम् ___59 गुतिंदिया, गुत्तबंभयारी, अममा, अकिंचणा, छिन्नगंथा, छिन्नसोआ निरुवलेवा, कंसपातीव मुक्कतोया, संखो इव निरंगणा जीवो विव अप्पडिहयगती जच्चकणगं पिव जातरूवा आदरिसफलगा विव पागडभावा, कुम्मो इव गुप्तं-वसत्यादिगुप्तिमद् ब्रह्म-मैथुनविरतिं चरन्ति-आसेवन्त इत्येवंशीला: गुप्तब्रह्मचारिणः, 'अमम'त्ति आभिष्वङ्गिकममेतिशब्दवर्जाः 'अकिंचन'त्ति निर्द्रव्याः (ग्रन्थाग्रम् 1000) वाचनान्तरे 'अकोहे'त्यादीन्येकादश पदानि दृश्यन्ते, तत्र ‘अकोहे'त्यादि 4 प्रतीतानि, अत एव 'संत'त्ति शान्ता अन्तर्वृत्त्या ‘पसंतत्ति प्रशान्ताः बहिर्वृत्त्या ‘उवसंत'त्ति उपशान्ता उभयतः, अथवा मनःप्रभृत्यपेक्षया शान्तादीनि पदानि, अथवा श्रान्ता भवभ्रमणात्, प्रशान्ताः प्रकृष्टचित्तत्वात् उपशान्ता-निवृत्ताः पापेभ्यः, अथवा प्रशमप्रकर्षाभिधानायैकार्थं पदत्रयमिदम्, अत एव 'परिनिव्वुआ'. सकलसन्तापवर्जिताः 'अणासव'त्ति अनाश्रवाः-अविद्यमानपापकर्मबन्धाः 'अगंथ'त्ति अविद्यमानहिरण्यादिग्रन्थाः 'छिन्नसोय'त्ति छिन्नशोकाश्छिन्नश्रोतसो वा, छिन्नसंसारप्रवाहा इत्यर्थः, 'निरुवलेव'त्ति उपलिप्यते अनेनेत्युपलेपस्तद्रहिताः, कर्मबन्धहेतुवर्जिता इत्यर्थः, अथ निरुपलेपतामेवोपमानैराह-वक्ष्यमाणपदानां च भावनाध्ययनाद्युक्ते इमे सङ्ग्रहगाथे "कसे 1 संखे 2 जीवे 3 गयणे 4 वाए 5 य सारए सलिले 6 / पुक्खरपत्ते 7 कुम्मे 8 विहगे 9 खग्गे य 10 भारंडे 11 // 1 // कुंजर 12 वसहे 13 सीहे 14 नगराया चेव 15 सागरऽक्खोहे 16 / . चंदे 17 सूरे 18 कणगे 19 वसुंधरा चेव 20 सुहुयहुए 21 // 2 // " उक्तगाथानुक्रमेणेहैतानि पदानि व्याख्यास्यामः, वाचनान्तरे इत्थमेव दृष्टत्वादिति, 'कंसपाईव मुक्कतोया' कांस्यपात्रीवेति व्यक्तं मुक्तं-त्यक्तं तोयमिव तोयं-बन्धहेतुत्वात् स्नेहो यैस्ते तथा, 'संखो इव निरंगणे'ति कम्बुवत् रङ्गणं-रागाद्युपरञ्जनं तस्मान्निर्गताः "जीवो विव अप्पडिहयगती' प्रत्यनीककुतीर्थिकादियुक्तेष्वपि देश-नगरादिषु विहरन्तो वादादिसामोपेतत्वेनास्खलितगतय इत्यर्थः, संयमे वा अप्रतिहतवृत्तय इत्यर्थः, 'गगणमिव निरालंबण'त्ति कुलग्रामनगराधालम्बनवर्जिता इत्यर्थः सर्वत्रानिश्रिता इति हृदयं, 'वायुरिव अप्पडिबद्धा' ग्रामादिष्वेकरात्र्यादिवासात् 'सारयसलिलं व सुद्धहियय'त्ति अकलुषमनस्त्वात्, 'पुक्खरपत्तं व निरवलेव'त्ति पङ्कजलकल्पस्वजनविषयस्नेहरहिता इत्यर्थः, कुम्मो व गुत्ति१. V/ संख-पु प्रे. मु. JL || 2. खं. / क्रमेणेह तानि-मु.॥ 3. जीव इव-मु.॥