________________ 58 श्री औपपातिकसूत्रम् गणिपिडगधरा सव्वक्खरसन्निवातिणो सव्वभासाणुगामिणो अजिणा जिणसंकासा जिणा इव अवितहं वागरमाणा संजमेणं तवसा अप्पाणं भावेभाणा विहरंति // 26 // 'समत्तगणिपिडगधरा' गणीनाम्-अर्थपरिच्छेदानां पिटकमिव पिटकं-स्थानं गणिपिटकम्, अथवा पिटकमिव वालञ्जकर्वाणिजकसर्वस्वाधारभाजनविशेष इव यत्तत्पिटकं, गणिनआचार्यस्य पिटकं गणिपिटक-प्रकीर्णक-श्रुतादेश-श्रुतनिर्युक्त्यादियुक्तं जिनप्रवचनं, समस्तम्अनन्तगमपर्यायोपेतं गणिपिटकं धारयन्ति ये ते तथा, अत एव 'सव्वक्खरसण्णिवाइणो'. त्ति सर्वे अक्षरसन्निपाता:-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा, 'सव्वभासाणुगामिणो 'त्ति सर्वभाषाः-आर्यानार्यामरवाच: अनुगच्छन्ति-अनुकुर्वन्ति तद्भाषाभाषित्वात् स्वभाषयैव वा लब्धिविशेषात्तथाविधप्रत्ययजननात्, अथवा सर्वभाषा:-संस्कृतप्राकृतमागध्याद्या अनुगमयन्ति-व्याख्यान्तीत्येवंशीला ये ते तथा, 'अजिण'त्ति असर्वज्ञाः सन्तो जिनसङ्काशाः जिना इवाऽवितथं व्याकुर्वाणाः // 26 // ___ 27 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे अणगारा भगवंतो इरियासमिया, भासासमिया, एसणासमिया, आदाण-भंड-मत्त-णिक्खेवणासमिया, उच्चार-पासवण-खेलसिंघाण-जल्ल-परिट्ठावणियासमिता, मणगुत्ता, वयगुत्ता, कायगुत्ता, गुत्ता __[27] 'तेणं कालेण'मित्यादि, गमान्तरं व्यक्तं च, नवरं समितिसूत्रे 'आयाणभंडमत्तनिक्खेवणासमिय'त्ति आदाने-ग्रहणे उपकरणस्येति गम्यते, भाण्डमात्रायाःवस्त्राद्युपकरणरूपपरिच्छदस्य, भाण्डमात्रस्य वोपकरणस्यैव, अथवा भाण्डस्य वस्त्रादेम॒न्मयभाजनस्य वा मात्रस्य च-पात्रविशेषस्य निक्षेपणायां-विमोचने ये समिता:-सुप्रत्युपेक्षितादिक्रमेण सम्यक् प्रवृत्तास्ते तथा, 'उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणियासमिया' पुरीष-मूत्र-निष्ठीवन-नासिकाश्लेष्ममलपरित्यागे समिता इति शुद्धस्थण्डिलाश्रयणात्, 'मणगुत्ते'त्यादि पदत्रयं कण्ठ्यम्, अत एव 'गुत्ता' सर्वथा गुप्तत्वात् 'गुतिदिय 'त्ति शब्दादिषु रागादिरहिता इत्यर्थः, अथवा 'गुत्तागुतिंदिय'त्ति गुप्तानि शब्दादिषु रागादिनिरोधाद् अगुप्तानि च आगमश्रवणेर्यासमित्यादिष्वनिरोधादिन्द्रियाणि येषां ते तथा, 'गुत्तबंभयारि'त्ति 1. B खं / वालञ्जक०मु.॥ 2. ०वानिजुक० खं.। 3. तुला-रायप.सू. 813 / भगवओ महावीरस्स-पु प्रे. / नास्ति एवमग्रेऽपि क्वचित् / भगवओ-J नास्ति // 4. भण्डमात्रस्यैवोप० खं.॥