SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ सूत्र - 25-26] विशिष्टश्रमणस्वरूपम् उवज्झाया' सूत्रदायकत्वात् बहूनां गृहस्थानां प्रव्रजितानां च दीप इव दीपो मोहतमःपटलपाटनपटुत्वात्, द्वीप इव वा द्वीपः संसारसागरनिमग्नानामाश्वासभूतत्वात्, 'ताणं 'ति त्राणमनर्थेभ्यो रक्षकत्वात् 'सरणं'ति शरणमर्थसम्पादकत्वात् 'गइ'त्ति गम्यत इति गतिरभिगमनीया इत्यर्थः, 'पइट्ठ'त्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा आश्रय इत्यर्थः // 25 // 26 - तेसिं णं भगवंताणं आयावायावि विदिता भवंति परवाया विदिया भवंति आदावादं जमइत्ता नलवणमिव मत्तमातंगा अच्छिद्दपसिणवाकरणा रयणकरंडगसमाणा कुत्तियावणभूया परवादियपमद्दणा दुवालसंगिणो समत्त__ [26] तेषां भगवताम् 'आयावायावित्ति आत्मवादाः-स्वसिद्धान्तप्रवादाः, अपिः समुच्चये, पाठान्तरेणात्मवादिनो जैना इत्यर्थः, विदिताः-प्रतीताः भवन्ति, तथा परवादाःशाक्यादिमतानि पाठान्तरेण परवादिनः- शाक्यादयो विदिता भवन्ति, स्वपरसिद्धान्तप्रवीणतया, ततश्च 'आयावाय'ति स्वसिद्धान्तं 'जमइत्त'त्ति पुनः पुनरावर्तनेनातिपरिचितं, कृत्वा, किमिव के इत्याह-नलवनमिव मत्तमातङ्गा इति प्रतीतं, नलवना इति पाठान्तरं, नलवनानीवेति व्याख्येयं, ततः अच्छिद्दपसिणवागरण'त्ति अविरलप्रश्ना अविरलोत्तराश्च सम्भूताः सन्तो विहरन्तीति योगः, 'रयणकरंडगसमाण'त्ति प्रतीतं, 'कुत्तियावणभूय'त्ति कुत्रिकं-स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिकं, तत्सम्पादक आपणोहट्टः कुत्रिकापणस्तद्भूताः-समीहितार्थसम्पादनलब्धियुक्तत्वेन तदुपमाः, परवाइयपमद्दण 'त्ति तन्मतप्रमर्दनात् 'परवाईहिं अणोक्वंता' इत्यादि चोद्दसपुव्वी'त्यन्तं वाचनान्तरं, तत्र अनुपक्रान्ता अनाक्रान्ता अनिराकृता इत्यर्थः, 'अण्णउत्थिएहिति अन्ययूथिकैः-परतीर्थिकैः 'अणोद्धंसिज्जमाण'त्ति अनुपध्वस्यमानाः माहात्म्यादपात्यमानाः, विहरन्ति-विचरन्ति, 'अप्पेगइया आयारधरे 'त्येवमादीनि षोडश विशेषणानि सुगमानि, नवरं सूत्रकृतधरा इत्यस्य प्राक्तनाङ्गधरणाविनाभूतत्वेऽपि तस्यातिशयेन धरणात्सूत्रकृतधरा इत्याधुक्तम्, अत एव विपाकश्रुतधरोक्तावपि एकादशाङ्गविद इत्युक्तम्, अथवा विदेविचारणार्थत्वादेकादशाङ्गविचारकाः, नवपूर्व्यादिग्रहणं तु तेषां सातिशयत्वेन प्राधान्यख्यापनार्थमिति, चतुर्दशपूर्वित्वे सत्यपि द्वादशाङ्गित्वं केषाञ्चिन्न स्याच्चतुर्दशपूर्वाणां द्वादशाङ्गस्यांशभूतत्वात्, अत आह'दुवालसंगिणो 'त्ति, तथा द्वादशाङ्गित्वेऽपि न समस्तश्रुतधरत्वं केषाञ्चित्स्यादित्यत आह 1. आयावादी- खं. / 2. परवाईवि० खं.. // 3. आयावादित्ति- खं. // 4. पुन: Bखं. नास्ति // 5. अनप० Bखं //
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy