________________ श्री औपपातिकसूत्रम् वयप्पहाणा, गुणप्पहाणा, करणप्पहाणा, चरणप्पहाणा, णिग्गहप्पहाणा, निच्छयप्पहाणा, अज्जवप्पहाणा, मद्दवप्पहाणा, लाघव-खंति-मुत्ति-विज्जमंत-वेद-बंभ-नय-नियम-सच्च-सोयप्पहाणा चारुवन्ना लज्जातवस्सी जिइंदिया सोही अणिदाणा अप्पोस्सुया अबहिल्लेसा अप्पडिलेसा सुसामण्णरया दंता इणमेव णिग्गंथं पावयणं पुरतो काउं विहरंति // 25 // इत्यर्थः, 'वयप्पहाणे'ति व्रतं-यतित्वं प्रधानम्-उत्तम शाक्यादियतित्वापेक्षया निर्ग्रन्थयतित्वाद्येषां, व्रतेन वा प्रधाना ये ते तथा, निर्ग्रन्थश्रमणा इत्यर्थः, ते च न व्यवहारत एवेत्यत आह-'गुणप्पहाण'त्ति प्रतीतं, नवरं गुणा:- करुणादयः, गुणप्राधान्यमेवप्रपञ्चयन्नाह-'करणप्पहाणे'त्यादिविशेषणसप्तकं प्रतीतार्थं च, नवरं करणं-पिण्डविशुद्धयादि चरणं-महाव्रतादि निग्रहः-अनाचारप्रवृत्तेनिषेधनं निश्चयः-तत्त्वनिर्णय: विहितानुष्ठानेषु वा अवश्यंकरणाभ्युपगमः, आर्जवं-मायोदयनिग्रहः मार्दवं-मानोदयनिरोधः, लाघवं-क्रियासु दक्षत्वं क्षान्तिः-क्रोधोदयनिग्रहः, मुक्तिः-लोभोदयनिरोधो विद्याः- प्रज्ञप्त्यादिकाः मन्त्राहरिणेगमेष्यादिमन्त्राः वेदाः-आगमाः ऋग्वेदादयो वा ब्रह्म-ब्रह्मचर्यं कुशलानुष्ठानं वा नया-नीतयः नियमा-अभिग्रहाः सत्यं-सम्यग्वादः शौचं-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारः, यच्चेह चरणकरणग्रहणेऽप्यार्जवादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थमवसेयं, 'चारुवण्ण'त्ति सत्कीर्तयः गौराद्युदात्तशरीरवर्णयुक्ता वा सत्प्रज्ञा वा 'लज्जातवस्सीजिइंदिय'त्ति लज्जाप्रधानास्तपस्विनः-शिष्या जितेन्द्रियाश्च येषां ते लज्जातपस्विजितेन्द्रियाः, अथवा लज्जया तपःश्रिया च जितानीन्द्रियाणि यैस्ते लज्जातपः श्रीजितेन्द्रियाः, यद्यपि 'जितेन्द्रिया इति प्रागुक्तं, तथापीह लज्जातपोविशेषितत्वान्न . पुनरुक्तत्वमवसेयमिति, 'सोहि'त्ति सुहृदो-मित्राणि जीवलोकस्येति गम्यम्, अथवा शोधियोगाच्छोधयः-अकलुषहृदया इत्यर्थः, 'अणियाण'त्ति अनिदाना-निदानरहिताः 'अप्पुस्सुय'त्ति अल्पौत्सुक्याऔत्सुक्यवर्जिताः 'अबहिल्लेस'त्ति संयमादबहिर्भूतमनोवृत्तयः, अप्पडिलेसा [वा]' अप्रतिलेश्या-अतुलमनोवृत्तयः, 'सुसामन्नरय'त्ति अतिशयेन श्रमणकर्मासक्ताः, ‘दंत'त्ति गुरुभिर्दमं ग्राहिताः विनयिता इत्यर्थः, इदमेव नैर्ग्रन्थ्यं प्रवचनं 'पुरओ काउंति पुरस्कृत्यप्रमाणीकृत्य विहरन्तीति, क्वचिदेवं च पठ्यते- 'बहूणं आयरिया' अर्थदायकत्वात् ‘बहूणं 1. यतेन्द्रिया-खं.।। 2. Bखं / अपडिलेस्सा-मु.॥ 3. प्राव०खं.॥