________________ सूत्र - 24-25] श्रमणस्वरूपम् यवमध्येति / 'वइरमज्झं चंदपडिमं'ति वैरस्येव (वज्रस्येव) मध्यं यस्यां सा तथा, यस्यां हि कृष्णप्रतिपदि पञ्चदश कवलान् भुक्त्वा ततः प्रतिदिनमेकहान्या अमावास्यायामेकं शुक्लप्रतिपद्यप्येकमेव, ततः पुनरेकैकवृद्ध्या पौर्णमास्यां पञ्चदश भुङ्क्ते सा तनुमध्यत्वाद्वज्रमध्येति / वाचनान्तराधीतमथ पदचतुष्कम् - 'विवेगपडिमं'ति विवेचनं विवेकः- त्यागः, स चान्तराणां कषायादीनां बाह्यानां च गणशरीरानुचितभक्तपानादीनां तत्प्रतिपत्तिविवेकप्रतिमेति / 'विउस्सग्गपडिम'ति व्युत्सर्गप्रतिमा-कायोत्सर्गकरणमिति / 'उवहाणपडिमंति तपोविषयोऽभिग्रहः, यद्यपि दशाश्रुतस्कन्धे भिक्षूपासकप्रतिमास्वरूपेयमुक्ता तथाऽपीह तथा न व्याख्याता, भिक्षुप्रतिमानां प्रागेव दशितत्वाद्, उपासकप्रतिमानां च साधूनामसम्भवात् / 'पडिसंलीणपडिमं 'ति संलीनताऽभिग्रहमिति // 24 // सूत्र - 25 तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे थेरा भगवंतो जातिसंपन्ना एवं कुल-बल-रूव-विणयणाण-दसण-चरित्त-लज्जा-लाघवसंपन्ना ओयंसी तेयंसी वच्चंसी जसंसी जियकोह-माण-माय-लोभा जिइंदिया जियणिद्दा जितपरीसहा जीवितासमरणभयविप्पमुक्का, __ [25] तेणं कालेणमिति साधुवर्णकगमान्तरमेव, तत्र 'जाइसंपन्न'त्ति उत्तममातृकपक्षयुक्ता इत्यवसेयम्, अन्यथा मातृकपक्षसम्पन्नत्वं पुरुषमात्रस्यापि स्यादिति नैषामुत्कर्षः कश्चिदुक्तः स्याद्, उत्कर्षाभिधानार्थं चैषां विशेषणकदम्बकं चिकीर्षितमिति, एवं 'कुलसंपन्ना' इत्याद्यपि विशेषणनवकं, नवरं कुलं-पैतृक: पक्षः बलं-संहननसमुत्थः प्राणः रूपम्-आकृतिः विनयज्ञाने प्रतीते दर्शनं-सम्यक्त्वं चरित्रं-समित्यादि लज्जाअपवादभीरुता संयमो वा लाघवं-द्रव्यतोऽल्पोपधिता भावतो गौरवत्रयत्यागः 'ओयंसि'त्ति ओजो-मानसोऽवष्टम्भस्तद्वन्तः ओजस्विनः 'तेयंसि'त्ति तेजः-शरीरप्रभा तद्वन्त: तेजस्विनः 'वच्चंसि'त्ति वचो-वचनं सौभाग्याधुपेतं येषामस्ति ते वचस्विनः, अथवा वर्चः-तेजः प्रभाव इत्यर्थः तद्वन्तो वर्चस्विनः 'जसंसि'त्ति यशस्विनः-ख्यातिमन्तः जितक्रोधादीनि सप्त विशेषणानि प्रतीतानि, नवरं क्रोधादिजयः- उदयप्राप्तक्रोधादिविफलीकरणतोऽवसेयः, 'जीवियासमरणभयविप्पमुक्का' जीविताशया मरणभयेन च विप्रमुक्ताः, तदुभयोपेक्षका 1. तुला-रायपसेणीयसू. 686 // २.तेषामु० B /