________________ 54 श्री औपपातिकसूत्रम् A"पडिवज्जइ एयाओ संघयणधिइजुओ महासत्तो।। पडिमाओ भावियप्पा सम्मं गुरुणा अणुनाओ // 1 // " इत्यादि / 'सत्तसत्तमियंति सप्तसप्तमानि दिनानि यस्यां सा तथा, सा च सप्तभिदिनानां सप्तकैर्भवति, तत्र च प्रथमदिने एका दत्तिर्भक्तस्यैकैव च पानकस्यैवं व्यादिष्वेकोत्तरया वृद्ध्या सप्तमदिने सप्त दत्तयः, एवमन्यान्यपि षट् सप्तकानि, अथवा प्रथमसप्तके प्रतिदिनमेका दत्तिद्वितीयादिषु तु व्यादयो यावत्सप्तमे सप्तके प्रतिदिनं सप्तेति, एवमष्टाष्टमिका नवनवमिका दशदशमिका चेति, नवरं दत्तिवृद्धिः कार्येति / क्वचिदिह स्थाने भद्रा-सुभद्रा-महाभद्रासर्वतोभद्रा-भद्रोत्तराश्च 'भिक्षुप्रतिमाः पठ्यन्ते, तत्र च सुभद्रा अप्रतीता, शेषास्तु व्याख्याताः प्राक्, नवरं भद्रोत्तरास्थापना एवम् - / 5 / 6 / 7 / 8 / 9 / प्रथमा पङ्क्तिः , 7 / 8 / 9 / 5 / 6 / द्वितीया, / 9 / 5 / 6 / 7 / 8 / तृतीया, / 67 / 8 / 9 / 5 / चतुर्थी, 8 / 9 / 5 / 6 / 7 / पञ्चमीति / अथवा / 5 / 6 / 7 / 8 / 9 / 10 / 11 / प्रथमा पङ्क्तिः , / 8 / 9 / 10 / 11 / 5 / 6 / 7 / द्वितीया, / 11 / 5 / 6 / 7 / 8 / 9 / 10 / तृतीया, 7 / 8 / 9 / 10 / 11 / 5 / 6 / चतुर्थी, 10 / 11 / 5 / 6 / 7 / 8 / 9 / पञ्चमी, / 6 / 7 / 8 / 9 / 10 / 11 / 5 / षष्ठी, / 9 / 10 / 11 / 5 / 6 / 7 / 8 / सप्तमीति / 'खुड्डियं मोयपडिमं'ति क्षुद्रिका-महत्यपेक्षया लघ्वी मोकप्रतिमा-प्रश्रवणाभिग्रहः, इयं च द्रव्यतः प्रश्रवणविषया प्रश्रवणस्यापरिष्ठापनेत्यर्थः, क्षेत्रतो ग्रामादेर्बहिः, कालतः शरदि निदाघे वा प्रतिपद्यते, तथा भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभक्तेन समाप्यते, अभुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, भावतस्तु 'दिव्याधुपसर्गसहनमिति / महल्लिअं मोअपडिमं पडिवण्णा, जवमझं चंदपडिमं पडिवण्णा, वइरमझं चंदपडिम पडिवण्णा, संजमेणं तवसा अप्पाणं भावमाणा विहरंति // 24 // एवं महामोकप्रतिमाऽपि नवरं भुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, अभुक्त्वा चेत्तदाऽष्टादशभक्तेनेति / 'जवमझं चंदपडिमंति यवस्येव मध्यं यस्याः सा यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि- शुक्लप्रतिपदि एकं कवलं भिक्षां वा अभ्यवहृत्य प्रतिदिनं कवलादिवृद्ध्या पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदशैव भुक्त्वा प्रतिदिनमेकहान्या अमावास्यायामेकमेव यस्यां भुङ्क्ते सा स्थूलमध्यत्वात् A प्रतिपद्यते एताः संहननधृतियुक्तो महासत्त्वः / प्रतिमा भावितात्मा सम्यग्गुरुणाऽनुज्ञातः // 1. भिक्षु०खं.नास्ति / / 2. B खं ।०स्याप्रतिष्ठा०मु.। 3. B खं. / दिव्यादिकोप० मु.॥ 4. यस्यां -मु.।। 5. स्थूलमध्यत्वात्-खं. नास्ति /