SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सूत्र - 24] विविधतपःस्वरूपम् 5 / 6 / 7 / 1 / 2 / 3 / 4 / सप्तमी / इह च षण्णवत्यधिकं शतं तपोदिनानां स्यादेकोनपञ्चाशच्च पारणकदिनानि, एवं चाष्टौ मासाः पञ्च च दिनानि, चतुसृषु परिपाटीष्वेतदेव चतुर्गुणमिति। 'आयंबिलवद्धमाणं 'ति यत्र चतुर्थं कृत्वा आयामाम्लं क्रियते, पुनश्चतुर्थं, पुनढे आयामाम्ले, पुनश्चतुर्थं, पुनस्त्रीणि आयामाम्लानि, एवं यावच्चतुर्थं शतं चायामाम्लानां क्रियत इति, इह च शतं चतुर्थानां तथा पञ्च सहस्राणि पञ्चाशदधिकानि आयामाम्लानां भवन्तीति / ___'मासियं भिक्खुपडिम'ति मासपरिमाणा मासिकी तां भिक्षुप्रतिमां-साधुप्रतिज्ञाविशेषं, तत्र हि मासं यावदेका दत्तिर्भक्तस्यैकैव च पानस्येति, एवं द्वितीयाद्याः सप्तम्यन्ताः एकैकदत्तिवृद्धियुक्ता इति / 'पढमं सत्तराइंदियंति तिसृणां मध्ये प्रथमा सप्तरात्रिन्दिवासप्ताहोरात्रप्रमाणा, अस्यां च चतुर्थं चतुर्थेन पानकाहारविरहित उत्तानको वा पार्श्वशायी वा निषद्योपगतो वा ग्रामादिभ्यो बहिविहरति, द्वितीयसप्तरात्रिन्दिवाऽप्येवंविधैव, नवरं उत्कुटुको वा लगण्डशायी वा दण्डायतो वा विहरति, एवं तृतीया सप्तरात्रिन्दिवापि, नवरं गोदोहिकास्थितो वा वीरासनिको वा आम्रकुब्जो वा आस्त इति / अहोराइयं( राइंद्रियं )भिक्खुपडिमं पडिवण्णा, इक्कराइयं भिक्खुपडिमं पडिवण्णा, सत्तसत्तमियं भिक्खुपडिमं, अट्ठमियं भिक्खुपडिमं, णवणवमिअं भिक्खुपडिमं, दसदसमिअं भिक्खुपडिमं, खुड्डियं मोअपडिमं पडिवण्णा, ____ 'राइंदियं 'ति रात्रिन्दिवप्रमाणामहोरात्रिकीमित्यर्थः, अस्यां च षष्ठोपवासिको ग्रामादिभ्यो बहिः प्रलम्बभुजस्तिष्ठतीति। 'एगराइयंति एका रात्रिः प्रमाणमस्या इत्येकरात्रिकी ताम्, अस्यां चाष्टमभक्तिको ग्रामादिबहिरीषदवनतगात्रोऽनिमिषनयनः शुष्कपुद्गलनिरुद्धदृष्टिः जिनमुद्रास्थापितपादः प्रलम्बितभुजस्तिष्ठतीति, विशिष्टसंहननादियुक्त एव चैताः प्रतिपद्यन्ते, आह च - 1. अंतगडदसांगसूत्रे - 'आयंबिलं करेइ, करेत्ता चउत्थं करेइ' इति // 2. ०गोदोहितास्थि० B // 3. "अहोराइंदियं (क, ख, ग) J / एक्कराइंदियं J (क, ख, ग); अर्थदृष्ट्या उभावपि पाठौ न सङ्गच्छेते / प्रथमपाठे 'अहो' 'दियं' द्वावपि शब्दौ दिवसवाचिनौ स्तः / द्वितीये पाठे “दियं' शब्दोऽधिकोऽस्ति / तेनास्माभिर्वृत्तिगतः ('राइंदियं', 'एगराइयं') पाठः स्वीकृतः / एकादश्या: प्रतिमाया: कृते 'राइंदियं' [तथा द्वादश्य: प्रतिमायाः कृते एगराइयं] पाठो लभ्यते / समवायाङ्गे (12/1) उक्तप्रतिमयोः कृते 'अहोराइया' तथा 'एगराइया' पाठः प्राप्यते / दशाश्रुतस्कन्ध (7, 31, 32) वृत्तौ एकादश्या: प्रतिमाया व्याख्या इत्थमस्ति- एकादशी अहोरात्रप्रमाणा-अहोरात्रिकी' / द्वादश्या व्याख्या तत्रैवेत्थमस्ति- एकरात्रिंदिवा-एकरात्रिप्रमाणा / अत्र रात्रिंदिवा शब्दादपि रात्रिरेव ग्राह्या, अन्यथा एकरात्रिकी इत्यस्य विरोधात् / अत्र वृत्तिकृता द्वितीयः पाठः समीचीनो नोपलब्ध इति प्रतिभाति / इत्थं प्रतीयते क्वचिद् 'अहो' शब्द आसीत् क्वचिच्च 'दीवा'। प्रतिलिपिषु जायमानाषु द्वयोरेकत्रयोगो जातः। तथैव 'राइयं' इत्यत्रापि 'राइंदियं' पाठानुसृतिर्जाता।" इति / संस्करणे पृ.१८ टि. 7-8 // 4. इक्कराइयं- JB / इक्कराइंदिअं-मु. // 5. ०इयति - B खं /
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy