SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ 48 श्री औपपातिकसूत्रम् 24 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे निग्गंथा भगवंतो अप्पेगइया आभिणिबोहियणाणी जाव केवलणाणी, अप्पेगइया मणबलिया, वयबलिया, कायबलिया,अप्पेगइया मणेणं सावाणुग्गहसमत्था अप्पेगइया वएणं सावाणुग्गहसमत्था, अप्पेगइया काएणं सावाणुग्गहसमत्था, अप्पेगइया खेलोसहिपत्ता एवं जल्लोसहिपत्ता विप्पोसहिपत्ता, आमोसहिपत्ता, सव्वोसहिपत्ता, अप्पेगइया कोटबुद्धी एवं बीयबुद्धी, पडबुद्धी, अप्पेगइया पयाणुसारी, अप्पेगइया [24] साधुवर्णकगमान्तरं व्यक्तमेव, नवरं 'मणबलिय'त्ति - मनोबलिकाःमानसावष्टम्भवन्तः वाग्बलिका:- प्रतिज्ञातार्थनिर्वाहकाः परपक्षक्षोभकारिवचना वा, कायबलिकाः क्षुधादिपरीषहेष्वग्लानीभवत्कायाः 'नाणबलिया' अव्यभिचारिज्ञानाः 'दंसणबलिया' परैरक्षोभ्यदर्शनाः 'चारित्तबलिया'इति व्यक्तं, वाचनान्तराधीतं चेदं विशेषणत्रयम् 'अप्पेगइया मणेणं सावाऽणुग्गहसमत्था' मनसैव परेषां शापाऽनुग्रहौ- अपकारोपकारी कर्तुं समर्था इत्यर्थः, एवं वाचा कायेन चेति / 'खेलोसहिपत्त'त्ति खेलो-निष्ठीवनं स एवौषधिः सकलरोगाद्यनर्थोपशमहेतुत्वात् खेलौषधिस्तां प्राप्ता ये ते तथा, एवमन्यत्रापि,नवरं 'जल्लोसहि'त्ति जेल्लो-मलः 'विप्पोसहि'त्ति विपुषः प्रश्रवणादिबिन्दवः, अथवा वि इति विष्ठा प्र-इति प्रश्रवणं ते एव ओषधिः इति / 'आमोसहि'त्ति आमर्षणमामर्षःहस्तादिसंस्पर्श इति / 'सव्वोसहि 'त्ति सर्व एव खेलजल्लविप्रुट्केशरोमनखादय ओषधि: सर्वौषधिः, 'कोट्ठबुद्धि'त्ति कोष्ठवत्-कुशूल इव सूत्रार्थधान्यस्य यथाप्राप्तस्याविनष्टस्याऽऽजन्मधरणाद्बुद्धिः-मतिर्येषां ते तथा / 'बीजबुद्धि'त्ति बीजमिव विविधार्थाधिगमरूपमहातरुजननाद्बुद्धिर्येषां ते तथा / 'पडबुद्धि 'त्ति पटवत् विशिष्टवक्तृवनस्पतिविसृष्टविविधप्रभूतसूत्रार्थपुष्पफलग्रहणसमर्थतया बुद्धिर्येषां ते तथा / ‘पदाणुसारि 'त्ति पदेन-सूत्रावयवेनैकेनोपलब्धेन तदनुकूलानि पदशतान्यनुसरन्ति-अभ्यूहयन्तीत्येवंशीला: पदानुसारिणः / 'संभिन्नसोय'त्ति सम्भिन्नान्-बहुभेदभिन्नान् शब्दान् पृथक् पृथक् युगपच्छृण्वन्तीति सम्भिन्न श्रोतारः, सम्भिन्नानि वा-शब्देन व्याप्तानि शब्दग्राहीणि, प्रत्येकं वा शब्दादिविषयैः श्रोतांसिसर्वेन्द्रियाणि येषां ते तथा / 'खीरासव'त्ति क्षीरवन्मधुरत्वेन श्रोतृणां कर्णमनःसुखकरं 1. क्षुदादि०खं // 2. यल्लो - B ||
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy