________________ सूत्र - 24] निर्ग्रन्थस्वरूपम् 49 संभिन्नसोया, अप्पेगइया खीरासवा, अप्पेगइया महुयासवा, अप्पेगइया सप्पिआसवा, अप्पेगइया अक्खीणमहाणसिया एवं उज्जुमती, अप्पेगइया विउलमई, विउव्वणिड्डिपत्ता, चारणा, विज्जाहरा, आगासातिवाइणो / वचनमाश्रवन्ति-क्षरन्ति ये ते क्षीराश्रवाः / 'महुयासव'त्ति मध्वाश्रवाः प्राग्वत्, नवरं मधुवत्सर्वदोषोपशमनिमित्तत्वादाल्हादकत्वाच्च तद्वचनस्य क्षीराश्रवेभ्यस्ते भेदेनोक्ताः। 'सप्पिआसव'त्ति सर्पिराश्रवास्तथैव, नवरं श्रोतृणां स्वविषये स्नेहातिरेकसम्पादकत्वात् क्षीरावमध्वाश्रवेभ्यो भेदेनोक्ताः / 'अक्खीणमहाणसीय'त्ति महानसम्-अन्नपाकस्थानं तदाश्रितत्वाद्वाऽन्नमपि महानसमुच्यते, ततश्चाक्षीणं-पुरुषशतसहस्रेभ्योऽपि दीयमानं स्वयमभुक्तं सत् तथाविधलब्धिविशेषादत्रुटितं तच्च तन्महानसं च-भिक्षालब्धभोजनमक्षीणमहानसं तदस्ति येषां ते तथा / 'उज्जुमइ 'त्ति ऋज्वी सामान्यतो मनोमात्रग्राहिणी मतिः- मनःपर्यायज्ञानं येषां ते तथा। 'विउलमइ'त्ति विपुला-बहुविधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा मति:मन:पर्यायज्ञानं येषां ते तथा, तथाहि-घटोऽनेन चिन्तितः स च द्रव्यतः सौवर्णादिः क्षेत्रतः पाटलिपुत्रकादिः कालतः शारदादिर्भावतः कालवर्णादिरित्येवं विपुलमतयो जानन्ति, ऋजुमतयस्तु सामान्यत एव, तथा अर्द्धतृतीयाङ्गलन्यूने मनुजक्षेत्रे व्यवस्थितसंज्ञिनां मनोग्राहिका आद्याः, इतरे तु सम्पूर्णा इति / 'विउव्वणिडिपत्त'त्ति विकुर्वणा-वैक्रियकरणलब्धिः सैव ऋद्धिस्तां प्राप्ता ये ते तथा / 'चारण'त्ति चरणं-गमनं तदतिशयवदस्ति येषां ते चारणाः, ते च द्विधा-जङ्घाचारणा विद्याचारणाश्च, तत्राष्टममष्टमेन क्षपतो यतेर्या लब्धिरुत्पद्यते यया च कश्चिज्जङ्घाव्यापारमाश्रित्यैकेनैवोत्पातेन त्रयोदशं रुचकवराभिधानं द्वीपं मेरुमस्तकं च यावद्गन्तुं प्रतिनिवृत्तश्च तत उत्पातद्वयेनेहागन्तुं समर्थो भवति तया युक्ता आद्याः, या पुनः षष्ठं षष्ठेन क्षपत उत्पद्यते, यया श्रुतविहितेषदुपष्टम्भतयोत्पातद्वयेनाष्टमं नन्दीश्वराख्यं द्वीपं मेरुमस्तकं च गन्तुं ततः प्रतिनिवृत्तश्चैकेनैवोत्पातेनेहागन्तुं समर्थो भवति तया युक्ता द्वितीया इति / 'विज्जाहर 'त्ति प्रज्ञप्त्यादिविविधविद्याविशेषधारिणः। 'आगासातिवाइणो 'त्ति आकाशंव्योमातिपतन्ति-अतिक्रामन्ति आकाशगामिविद्याप्रभावात् पादलेपादिप्रभावाद्वा आकाशाद्वा हिरण्यवृष्ट्यादिकमिष्टमनिष्टं वाऽतिशयेन पातयन्तीत्येवंशीला आकाशातिपातिनः, आकाशादिवादिनो वा-अमूर्तानामपि पदार्थानां साधन(ने) समर्थवादिन इति भावः। 1. विवक्षित०खं. // 2. ०ग्राहका-खं // 3. विउव्विणिलड्डिःखं. / विउव्विणिड्डि - B || 4. B | तत्राष्टमाष्टमेन-मु.॥ 5. Bखं. / ०वोपपातेन-मु. // 6. उत्पादद्व०खं. // 7. क्षपयत -B // 8. ०वाइत्ति-B खं. //