________________ सूत्र - 23 ] प्रभुवीरस्य श्रमणाः 47 'नरवइगुणाइरेया' नरपतेः-राज्ञः सकाशाद्गुणैः-विभव-सुखादिभिः अतिरेक:अतिशयो येषां ते तथा / 'इच्छियभोगा' ईप्सिता-वाञ्छिताः भोगाः-शब्दादयो येषां ते तथा / 'सुहसंपललिया' सुखेन सम्प्रललिता:-प्रक्रीडिता ये ते तथा / 'किंपागफलोवमं च'त्ति विषवृक्षफलतुल्यं पुनः 'मुणिय'त्ति ज्ञात्वा 'विसयसुहं'त्ति व्यक्तं, तथा 'जलबुब्बुदसमानं' कुशाग्रे जलबिन्दुः कुशाग्रजलबिन्दुस्तद्वच्चञ्चलं 'जीवियंति च णाऊण, अदुवमिणं रयमिव पडग्गलग्गं संविधुणित्ता णं, चइत्ता हिरण्णं जाव पव्वइया, अप्पेगतिया अद्धमासपरियाया, अप्पेगतिया मासपरियाया एवं दुमास० तिमास० जाव एक्कारस अप्पेगतिया वासपरियाया [ एवं] दुवास तिवास० अप्पेगतिया अणेगवासपरियाया संजमेणं तवसा अप्पाणं भावेमाणा विहरंति // 23 // जीवितव्यं ज्ञात्वा, तथा 'अद्धवमिणं'ति इदं विषयसौख्यधनसञ्चयादिकम् अध्रुवम्अनित्यरूपं रज इव. पटाग्रलग्नं 'संविधुणित्ता णं'ति संविधूय-झगिति विहाय, तथा 'चइत्त 'त्ति त्यक्त्वा, किं तदित्याह-'हिरण्यं च' रूप्यं, यावच्छब्दोपादानादिदं दृश्यम्चिच्चा सुवण्णं चिच्चा धणं एवं धण्णं बलं वाहणं कोसं कोट्ठागारं रज्जं रटुं पुरं अंतेउरं चिच्चा विपुलधणकणग-रयण-मणि-मोत्तिय-संख-सिलप्पवाल-रत्तरयणमाईयं संतसारसावतेज्जं विच्छड्डइत्ता विगोवइत्ता दाणं च दाइयाणं परिभायइत्ता मुंडे भवित्ता अगाराओ अणगारिय'मिति, व्यक्तं चैतत्, नवरं सुवर्णं घटितं धनं-गवादि बलं-चतुरङ्ग वाहनं- 'वेसरादिकं पुनर्धनं-गणिमादि कनकम्-अघटितसुवर्णं रत्नानिकर्केतंनादीनि मणयः-चन्द्रकान्तादयः मौक्तिकानि-मुक्ताफलानि शङ्खा:-प्रतीताः शिलाप्रवालानि-विद्रुमाणि रक्तरत्नानि-पद्मरागा आदिशब्दाद्वस्त्र-कम्बलादिपरिग्रहः, एतेन किमुक्तं भवतीत्याह-'संत'त्ति विद्यमानं सारस्वापतेयं-प्रधानद्रव्यं, किमित्याह-विच्छद्य-विशेषेण त्यक्त्वा विच्छर्दवद्वा कृत्वा निष्क्रमणमहिमकरणतः, तथा तदेव गुप्तं सद्विगोप्य-प्रकाशीकृत्य दानातिशयादत एव 'दाणं च दाइयाणं'ति दानार्हेभ्यः परिभाज्य-दत्त्वा, गोत्रिकेभ्यो वाविभागशो दत्त्वा मुण्डा भूत्वा-द्रव्यतः शिरोलुञ्चनेन भावतः क्रोधाद्यपनयनेन अगाराद्गेहात् निष्क्रम्येति. शेषः, अनगारितां-साधुतां प्रव्रजिता-गताः, विभक्तिपरिणामाद्वा अनगारितया प्रव्रजिता:-श्रमणीभूताः, पर्यायसूत्राणि सुगमान्येवेति // 23 // 1. जीवियव्वत्ति-खं. // 2. चेच्चा-खं. एवमग्रेऽपि || 3. वेगसरादिकं मु.खं. B // 4. गोत्रियेभ्यो-खं. // 5. गारतया-B ||