________________ 46 श्री औपपातिकसूत्रम् 23 - तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी बहवे समणा भगवंतो-अप्पेगइया उग्गपव्वतिता भोगपव्वतिया राइन्न-णात-कोरव्व-खत्तियपव्वइया भडा जोधा सेणावई पसत्थारो सेट्ठी इब्भा अन्ने य बहवे. एवमादिणो उत्तमजाति-कुल-रूव-विणय-विन्नाण-वन्नलावन्न-विक्कम-पहाण-सोभग्ग-कंतिजुत्ता बहुधण-धन्न-णिचय-परियालफिडिया णरवतिगुणातिरेगा इच्छियभोगा सुहसंपललिता किंपागफलोवमं च मुणिय विसयसोक्खं, जलबुब्बुयसमाणं कुसग्ग-जलबिंदुचंचलं जीवियं __[23] 'अंतेवासि'त्ति शिष्याः / 'अप्पेगइय'त्ति अपिः-समुच्चये एकका-एके अन्ये केचिदपीत्यर्थः / 'उग्गपव्वइय'त्ति उग्रा-आदिदेवेन ये आरक्षिकत्वे नियुक्ताः तद्वंशजाश्च अत उग्राः सन्तः प्रव्रजिता-दीक्षामाश्रिता उग्रप्रव्रजिताः / एवमन्यान्यपि पदानि, नवरं भोगा-ये तेनैव गुरुत्वेन व्यवहतास्तद्वंशजाश्च, राजन्या ये तेनैव वयस्यतया व्यवस्थापितास्तद्वंशजाश्च, ज्ञाता-इक्ष्वाकुवंशविशेषभूताः, नागा वा-नागवंशप्रसूताः कोरव्वत्ति-कुरवः-कुरुवंशप्रसूताः, क्षत्रियाश्चातुर्वर्ण्य द्वितीयवर्णभूताः, भडत्ति-चारंभटाः, जोहत्ति-भटेभ्यो विशिष्टतराः सहस्रयोधादयः, सेणावइत्ति-सैन्यनायकाः, पसत्थारत्तिप्रशास्तारो धर्मशास्त्रपाठकाः, श्रेष्ठिन:-श्रीदेवताध्यासितसौवर्णपट्टाङ्कितमस्तकाः, इब्भत्तिइभ्याः हस्तिप्रमाणद्रविणराशिपतयः 'अन्ने य बहवे एवमाइणो 'त्ति एवम्प्रकाराः 'उत्तमजाइ-कुल-रूव-विणय-विण्णाण-वण्ण-लावण्ण-विक्कम-पहाणसोहग्गकतिजुत्त'त्ति उत्तमा ये जात्यादयः प्रधाने च ये सौभाग्य-कान्ती तैः युक्तास्ते तथा, तत्र जाति:-मातृपक्षः कुलं-पैतृकपक्षः रूपं-शरीराकारः विनय-विज्ञाने च. प्रतीते वर्णो-गौरत्वादि कायच्छाया लावण्यम्-आकारस्यैव स्पृहणीयता विक्रम:-पौरुषं सौभाग्यम्-आदेयता कान्तिः-दीप्तिः / 'बहु-धण-धण्ण-निचय-परियाल-फिडिया' बहवो ये धनानां-गणिम-धरिमादीनां धान्यानां च-शाल्यादीनां निचयाः-सञ्चयाः परिवारश्च-दासी-दासादिपरिकरस्तैः 'स्फिटिताईश्वरान्तराण्यतिक्रान्ताः अथवा तेभ्य: सर्वसङ्गत्यागेन दूरीभूता ये ते तथा, पाठान्तरे बहवो धन-धान्य-निचय-परिवारा यस्यां सा तथाभूता स्थिति: गृहवासे येषां ते तथा / 1. खं. / आरक्षकत्वेन-मु. / आरक्षिकत्वेन-B || 2. कोरवत्ति-खं. // 3. ०भट्टा-खं. // 4. भट्टेभ्यो-खं. // 5. B खं. / तैर्ये युक्ता० मु. // 6. B खं. / स्फुटिता-मु. //