________________ सूत्र - 22 ] चंपायां महावीरप्रभोरागमनं * “एयं चेव पमाणं नवरं रययं तु केसवा देंति / मंडलियाण सहस्सा पीईदाणं सयसहस्सा // 2 // " ____ इति, इह पुनस्तदष्टोत्तरलक्षमानमुक्तमिति कथं न विरोध: ?, उच्यते, भगवति चम्पायामागते तद्दास्यतीति न विरोधः / 'सक्कारेइ'त्ति प्रवरवस्त्रादिभिः पूजयति / 'सम्माणेइ 'त्ति तथाविधया वचनादिप्रतिपत्त्या पूजयत्येवेति / 'एवं सामित्ति आणाए विणएणं वयणं पडिसुणेइ'त्ति वाचनान्तरे वाक्यम्, एवमिति-यथाऽऽदेशं स्वामिन्नित्यामन्त्रणार्थः इतिः-उपप्रदर्शने आज्ञया-तदाज्ञां प्रमाणीकृत्येत्यर्थः विनयेन-अञ्जलिकरणादिना वचनं-राजादेशं प्रतिशृणोति-अभ्युपगच्छति इति // 21 // . २२-तते णं समणे भगवं महावीरे कल्लं पादुप्पभाताए रयणीए फुल्लुप्पलकमल-कोमलुम्मिलितम्मि अह पंडुरे पभाए रत्तासोगप्पगास-किंसुयसुयमुह-गुंजद्ध-रागसरिसे कमलाकरसंडबोहए उट्ठियम्मि सूरे सहस्सरस्सिम्मि दिणकरे तेयसा जलंते जेणेव चंपा णयरी जेणेव पुन्नभद्दे चेइए तेणेव उवागच्छति उवागच्छित्ता अहापडिरूवं ओग्गहं ओग्गिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति // 22 // ___ [22] 'कल्लं पाउप्पभायाए रयणीए'त्ति कल्यमिति-श्वः प्रादुः-प्राकाश्ये ततः प्रकाशप्रभातायां रजन्यां 'फुल्लप्पलकमल-कोमेलुम्मिलियंमि'त्ति फुल्लं-विकसितं तच्च तदुत्पलं च-पद्मं फुल्लोत्पलं तच्च कमलश्च-हरिणविशेषः तयोः कोमलम्-अकठोरम् उन्मीलितं-दलानां नयनयोश्चोन्मीलनं यस्मिँस्तत्तथा / तत्र 'अह पंडुरे पभाए'त्ति अथ रजनीप्रभातानन्तरं पाण्डुरे-शुक्ले प्रभाते-उषसि / 'रत्तासोगप्पगास-किंसुय-सुयमुहगुंजद्ध-रागसरिसे कमलाकर-संड-बोहए उठ्ठियंमि सूरे'त्ति रक्ताशोकस्य-तरुविशेषस्य प्रकाशः-प्रभा स च किंशुकं च-पलाशकुसुमं शुकमुखं च-प्रतीतं गुञ्जा-रक्तकृष्णः फलविशेषः तदर्द्धं चेति द्वन्द्वः, एषां यो रागो-रक्तत्वं तेन सदृशः-समो यः स तथा, तंत्र कमलाकरा:-पद्मोत्पत्तिस्थानभूता हृदादयस्तेषु यानि षण्डानि-नलिनवनानि तेषां बोधकोविकाशको यः स तथा तत्र, उत्थिते-उद्गते सूरे-रवौ / किम्भूते ? - 'सहस्सरस्सिमि दिणयरे तेजसा जलंते 'त्ति विशेषणत्रयं व्यक्तम् / 'संपलियंकनिसने 'त्ति पद्मासने निषण्णः, इदं च वाचनान्तरपदम् // 22 // 1. VN | अहपंडरे-पुप्रे. / आहा(अह)पंडुरे-मु. अहापंडरे-v पाठा. / पु.प्रे. मध्ये अग्रे सर्वत्र पंडरे इति पाठः / / 2. लमिल्लियंमि-खं. // 3. खं / तथा-मु. / तथा तत्र-B |