________________ 42 श्री औपपातिकसूत्रम् सद्विमोक्तुं नेच्छन्ति / 'पीहंति 'त्ति स्पृहयन्ति अनवाप्तमवाप्तुमिच्छन्ति / 'पत्थंति'त्ति प्रार्थयन्ति-तथाभूतसहायजनेभ्यः सकाशाद्याचन्ते / 'अभिलसंति'त्ति अभिलषन्तिआभिमुख्येन कमनीयमिति मन्यन्ते / 'नामगोत्तस्स वित्ति नाम च-अभिधानं यथा महावीर इति, गोत्रं च-वंशो यथा काश्यपगोत्र इति, नामगोत्रमिति द्वन्द्वैकत्वमतस्तस्य, अथवा नामाभिधानं गोत्रं च यथार्थं, ततः कर्मधारय इति / 'सवणयाए'त्ति श्रवणानां भाव: श्रवणता तया, स्वार्थिको वा ताप्रत्ययः प्राकृतशैलीप्रभव इति // 20 // 21 - तते णं से कूणिए राया भिंभिसारपुत्ते तस्स पवित्तिवाउयस्स अंतिए एयमढे सोच्चा णिसम्म हट्ठतुट्ठ जाव हियए विकसिय-वरकमलःणयण-वदणे पचलित-वरकडक तुडिय-केऊर-मउड-कोंडल-हारविरायंतरइतवच्छे पालंबपलंबमाण-घोलंतभूसणधरे ससंभमं तुरियचवलं णरिंदे सीहासणाओ अब्भुट्टेति अब्भुढेत्ता पादपीढातो पच्चोरुहति, पच्चोरुहित्ता पाउयाओ ओमुयति ओमुइत्ता [21] 'सोच्चा निसम्म'त्ति श्रुत्वा-श्रोत्रेणाऽऽकर्ण्य निशम्य-हृदयेनावधार्य / 'धाराहय-नीव-सुरभिकुसुमचंचुमालइयऊसवियरोमकूवे' धाराभिः-जलधरवारिधाराभिर्हतं यन्नीपस्य-कदम्बस्य सुरभिकुसुमं तत्तथा, तदिव चंचुमालइयत्ति-पुलकितोऽत एव उच्छ्रितरोमकूपश्च यः स तथा, इदं च विशेषणं क्वचिदेव दृश्यते / 'विकसिय-वरकमलणयण-वयणे' विकसितानि-भगवदागमनवार्ताश्रवणजनितानन्दातिशयादुत्फुल्लानि वरकमलवन्नयन-वदनानि यस्य स तथा / पचलिय-वर-कडग-तुडिय-केऊर-मउड-कुंडल-हारविरायंत-रइयवच्छे' प्रचलितानि-भगवदागमनश्रवणजनितसम्भ्रमातिरेकात् कम्पितानि वराणि-प्रधानानि कटकानि च-कङ्कणानि तुटिकाश्च-बाहुरक्षकाः केयूराणि च-अङ्गदानि मुकुटं च-किरीटं कुण्डले च-कर्णाभरणे यस्य स तथा, हारो-मुक्ताकलापो विराजन्शोभमानो रचितो-विहितो वक्षसि-उरसि येन स तथा, ततः कर्मधारयः / 'पालंबपलंबमाण-घोलंतभूसणधरे' प्रालम्बो-झुम्बनकं प्रलम्बमानं-लम्बमानं घोलच्च-दोलायमानं यद्भूषणम्-आभरणं तद्धारयति यः स तथा / 'ससंभमंति सादरं 'तुरियचवलं'तिअतित्वरितं, क्रियाविशेषणे चैते / ‘पच्चोरुहइ'त्ति प्रत्यवरोहति-अवतरतीत्यर्थः,क्वचिदिदं पादुकाविशेषणं दृश्यते-'वेरुलिय-वरिठ्ठ-रिट्ठअंजण-निउणोविय-मिसिमिसिंत-मणि 1. खं. B ०लइअउच्छिय० मु. // 2. इतोऽग्रे-पुलइयत्ति-खं. मध्ये अधिकपाठः / / 3. त्रुटितानि-राज.वृ. प. 16 B // 4. बाहुरक्षिका-इति ज्ञाताधर्म. वृत्तौ 5. मिसेंत० खं. //