SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सूत्र - 20 ] प्रवृत्तिव्यापृतस्य कूणिकाय निवेदनम् 41 स तथा / 'कयकोउयमंगलपायच्छित्ते' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानिदुःस्वप्नादिविघातार्थमवश्यकरणीयत्वाद्येन स तथा, तत्र कौतुकानि-मषी-तिलकादीनि मङ्गलानि तु सिद्धार्थ-दध्यक्षत-दूर्वाङ्कुरादीनि 'सुद्धप्पवेसाइं मंगल्लाइं वत्थाई पवरपरिहिए' शुद्धात्मा-स्नानेन शुचिकृतदेह: वेश्यानि- वेशे साधूनि अथवा शुद्धानि च तानि प्रवेश्यानि च-राजसभाप्रवेशोचितानि चेति विग्रहः, माङ्गल्यानि-मङ्गलकरणे साधूनि वस्त्राणि[इति]व्यक्तम्, पवरत्ति-द्वितीयाबहुवचनलोपात् प्रवराणि-प्रधानानि परिहितोनिवसित: अथवा प्रवरश्चासौ परिहितश्चेति समासः / 'अप्पमहग्घाभरणालंकियसरीरे 'त्ति व्यक्तं, नवरम् अल्पानि-स्तोकानि महार्घाणि-बहुमूल्यानि / 'सयाओ 'त्ति स्वकात्-स्वकीयात् / 'जेणेव'त्ति यस्मिन्नेव देशे इत्यर्थः / 'बाहिरिय'त्ति अभ्यन्तरिकापेक्षया बाह्या / 'उवट्ठाणसाल'त्ति आस्थानसभेति / 'तेणेव'त्ति तस्मिन्नेव देश इत्यर्थः / 'सिरसावत्तं'ति शिरसा-मस्तकेन अप्राप्तम्-अस्पृष्टं, शिरसि वा आवर्तत इति शिरस्यावर्तोऽतस्तम् / 'जएणं विजएणं वद्धावेति 'त्ति जयः-सामान्यो विघ्नादिविषयो विजयः स एव विशिष्टतरः प्रचण्डप्रतिपन्थ्यादिविषयः वर्धयति-जयेन विजयेन च वर्द्धस्व त्वमित्येवमाशिषं प्रयुङ्क्ते स्मेत्यर्थः / 'जस्स णं देवाणुप्पिया ! दंसणं कंखंति जस्स णं देवाणुप्पिया दंसणं पीहंति जस्स णं देवाणुप्पिया दंसणं पत्थंति जस्स णं देवाणुप्पिया दंसणं अभिलसंति जस्स णं देवाणप्पिया नामगोत्तस्स वि सवणयाए हट्टतचित्त माणंदिया जाव हरिसवसविसप्पमाणहियया भवंति से णं समणे भगवं महावीरे Aआइगरे तित्थगरे जाव वियट्टछउमे अरहगा जिणे केवली सव्वन्नू सव्वदरिसी आगासगएणं छत्तेणं जाव छत्तीसाए अज्जियासाहस्सीहिं सद्धिं संपरिवुडे A पुव्वाणुपुचि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे चंपाए नयरीए बहिया उवणगरगामं उवागए चंपं नगरिं पुन्नभदं चेइयं समोसरिउकामे / तं एतं णं देवाणुप्पिया णं पियं णिवेदेमि पियं भे भवतु // 20 // 'देवाणुप्पिय'त्ति सरलस्वभावाः / “दंसणं'ति अवलोकनम् / 'कंखंति 'त्ति प्राप्त 1. सुद्धप्पा० B खं. // 2. वेषे - खं. // 3 B खं. / ०प्रतिपन्थादि० मु. // 4. देवाणुपिता-पु प्रे. V / 5. पुप्रे. AA चिह्नद्वयमध्यवर्तिपाठ: मु. नास्ति / 6-7. जावनिर्दिष्टपाठः सू. 19 मध्ये वर्तते / श्री औप. 6
SR No.004431
Book TitleUvavai Suttam
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherMahavir Jain Vidyalay
Publication Year2012
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari & agam_aupapatik
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy