________________ 40 श्री औपपातिकसूत्रम् 20 - तते णं से पवत्तिवाउए इमीसे कहाए लद्धटे समाणे हट्ठ-तुट्ठ चित्तमाणंदिते णंदिए, पीइमणे, परमसोमणस्सिए, हरिसवसविसप्पमाणहियए, पहाए, कयबलिकम्मे, कतकोउयमंगलपायच्छित्ते, सुद्धप्पवेसाई मंगल्लाइं वत्थाई पवरपरिहिए, अप्पमहग्घाभरणालंकितसरीरे, सयाओ गिहाओ पडिनिक्खमइ, सयाओ गहाओ पडिनिक्खमित्ता चपाए नगरीए मझंमज्झेणं जेणेव कूणियस्स रन्नो गिहे जेणेव बाहिरिया उवट्ठाणसाला जेणेव कूणिए राया 'भिभिसारपुत्ते तेणेव उवागच्छइ, उवागच्छित्ता करयलपरिग्गहियं दसणहं सिरसावत्तं मत्थए अंजलिं कट्ट कूणियं रायं जएणं विजएणं वद्धावेइ, वद्धावइत्ता एवं वयासी - [20] 'तए णं'ति ततोऽनन्तरं, 'ण'मिति वाक्यालङ्कारे, 'से' इति असौ 'पवित्तिवाउए 'त्ति प्रवृत्तिव्यातो भगवद्वार्ताव्यापारवान् ‘इमीसे कहाए'त्ति अस्यां भगवदागमनलक्षणायां कथायां वार्तायां 'लद्धटे समाणे'त्ति लब्धार्थः सन्-प्राप्तार्थः सन्, विज्ञः सन्नित्यर्थः, 'हट्ठ-तुट्ठ-चित्तमाणंदिए'त्ति हृष्टतुष्टम्-अत्यर्थतुष्टं हृष्टं वा-विस्मितं तुष्टं च-तोषवच्चित्तं-मनो यत्र तत्तथा तत् हृष्टतुष्टचित्तं यथा भवति एवमानन्दितईषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः ततश्च ‘णंदिए'त्ति नन्दितः-समृद्धितरतामुपगतः / 'पीइमणे' प्रीतिः-प्रीणनमाप्यायनं मनसि यस्य स तथा, 'परमसोमणस्सिए' परमं सौमनस्य-सुमनस्कता सञ्जातं यस्य स परमसौमनॅस्यितः तद्वाऽस्यास्तीति परमसौमनस्यिकः, 'हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पत्-विस्तारं व्रजद्धृदयं यस्य स तथा, सर्वाणि चैतानि हृष्टादिपदानि प्राय एकार्थिकानि, न च दुष्टानि, प्रमोदप्रकर्षप्रतिपत्तिहेतुत्वात् स्तुतिरूपत्वाच्च, यदाह "वक्ता हर्षभयादिभिराक्षिप्तमनाः स्तुवस्तथा निन्दन् / यत्पदमसकृद् ब्रूयात्तत्पुनरुक्तं न दोषाय // 1 // " 'पहाए'त्ति व्यक्तं, 'कयबलिकम्मे 'त्ति स्नानानन्तरं कृतं बलिकर्म स्वगृहदेवतानां येन 1. पु.प्रे. / णंदिए-B मु. V नास्ति // 2. चंपं नयरिं-पु प्रे. // 3. पु प्रे. BI भिंभ०-VN | भंभ० मु. // 4. पु प्रे. L / दसणहं-BVN मु. नास्ति / / 5. पु प्रे. / कूणियं रायं-BVN मु. नास्ति // 6. B खं. / कथायां-मु. नास्ति / 7. B खं. / ०नस्यिक: मु.॥