________________ सूत्र - 19] 35 वचनातिशयाः विशेषता 31, साकारत्वं-विच्छिन्नवर्णपदवाक्यत्वेनाकारप्राप्तत्वम् 32, सत्त्वपरिगृहीतत्वंसाहसोपेतता 33, अपरिखेदितत्वम्-अनायाससम्भवः 34, अव्युच्छेदित्वं-विवक्षितार्थसम्यसिद्धिं यावद् अव्यवच्छिन्नवचनप्रमेयतेति 35 / / आगासगएणं चक्केणं, आगासगएणं छत्तेणं, आगासियाहिं सेयवरचामराहिं, आगास-फलियामएणं, सपादपीढेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिज्जमाणेणं चोद्दसहि समण-साहस्सीहिं, छत्तीसाए अज्जियासाहस्सीहिं, सद्धि संपरिवुडे पुव्वाणुपुद्वि चरमाणे, गामाणुगामं दूइज्जमाणे, सुहंसुहेणं विहरमाणे चंपाए नयरीए बहिया उवनगरग्गामं उवागए चंपं नगरिं पुण्णभदं चेइयं समोसरिउकामे // 19 // __ अथ प्रकृतवाचना-'आगासगएणं'ति आकाशवर्तिना 'चक्केणं' धर्मचक्रेण 'आगासगएणं छत्तेणं'ति छत्रत्रयेण 'आगासियाहिं'ति आकाशम्-अम्बरम् इताभ्यांप्राप्ताभ्याम् आकर्षिताभ्यां वा-आकृष्टाभ्यामुत्पाटिताभ्यामित्यर्थः, 'चामराहि'ति चामराभ्यांप्रकीर्णकाभ्याम्, प्राकृतत्वाच्च लिङ्गव्यत्ययः, लक्षित इति सर्वत्र गम्यम् / 'आगासफलियामएणं'ति आकाशतुल्यं स्वच्छतया यत् स्फटिकं तन्मयेन, 'सपादपीठेन सिंहासनेनेति' व्यक्तम् / 'धम्मज्झएणं 'ति धर्मचक्रवर्तित्वसंसूचकेन केतुनामहेन्द्रध्वजेनेत्यर्थः, 'पुरओ'त्ति अग्रत: ‘पकढिज्जमाणेणं'ति देवैः प्रकृष्यमाणेनेति, 'सद्धि' सह ‘संपरिवुडे 'त्ति सम्यक् परिकरित:-समन्ताद्वेष्टित इत्यर्थः / 'पुव्वाणुपुचि 'ति पूर्वानुपूर्व्या न पश्चानुपूर्व्या नाऽनानुपूर्व्या वेत्यर्थः, क्रमेणेति हृदयम्, 'चरन्' सञ्चरन्, एतदेवाह-'गामाणुगामं दूइज्जमाणे'त्ति ग्रामश्च प्रतीतोऽनुग्रामश्च-विवक्षितग्रामानन्तरो ग्रामो ग्रामानुग्रामं तद् 'द्रवन्' गच्छन्, एकस्माद् ग्रामादनन्तरं ग्राममनुल्लड्वयन्नित्यर्थः, अनेनाऽप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्याभावमिति / 'सुहंसुहेणं विहरमाणे 'त्ति अत एव सुखंसुखेन-शरीरखेदाभावेन संयमबाधाभावेन च 'विहरन्'- स्थानात् स्थानान्तरं गच्छन् ग्रामादिषु वा तिष्ठन् ‘बहिय'त्ति बहिस्तात् 'उवनगरग्गामंति नगरस्य समीपमुपनगरं तत्र ग्राम उपनगरग्रामस्तमुपागतः // 19 / / 1. विशेषिता-खं. / / 2. लक्ष्यत-खं. // 3. हेतुना-खं. //