________________ 38 श्री औपपातिकसूत्रम् 24 अनपनीतत्वम् 25 उत्पादिताच्छिनकौतूहलत्वम् 26 अद्रुतत्वम् 27 अनतिविलम्बित्वं 28 विभ्रमविक्षेपकिलिकिञ्चितादिवियुक्तत्वम् 29 अनेकजातिसंश्रयाद्विचित्रत्वम् 30 आहितविशेषत्वं 31 साकारत्वं 32 सत्त्वपरिगृहीतत्वम् 33 अपरिखेदितत्वम् 34 अव्युच्छेदित्वं 35 चेति वचनातिशयाः / / __तत्र 'संस्कारवत्त्वं' संस्कृतादिलक्षणयुक्तत्वं 1, उदात्तत्वम्-उच्चैर्वृत्तिता 2, उपचारोपेतत्वम्-अग्राम्यता 3, गम्भीरशब्दत्वं-मेघस्येव 4, अनुनादित्वं-प्रतिरवोपेतता 5, दक्षिणत्वं -सरलता 6, उपनीतरागत्वं-मालव-केशिकादिग्रामरागयुक्तता 7, एते सप्त शब्दापेक्षा अतिशयाः, अन्ये त्वर्थाश्रयाः, तत्र महार्थत्वं-बृहदभिधेयता 8, अव्याहतपौर्वापर्यत्वं-पूर्वापरवाक्याविरोधः 9, शिष्टत्वम्-अभिमतसिद्धान्तोक्तार्थता वक्तुः शिष्टतासूचकत्वं वा 10, असन्दिग्धत्वम्-असंशयकारिता 11, अपहृतान्योत्तरत्वं-परदूषणाविषयता 12, हृदयग्राहित्वंश्रोतृमनोहरता 13, देशकालाव्यतीतत्वं-प्रस्तावोचितता 14, तत्त्वानुरूपत्वं-विवक्षितवस्तुस्वरूपानुसारिता 15, अप्रकीर्णप्रसृतत्वं-सुसम्बद्धस्य सतः प्रसरणम्, अथवा असम्बद्धाधिकारत्वाऽतिविस्तरयोरभावः 16, अन्योऽन्यप्रगृहीतत्वं-परस्परेण पदानां वाक्यानां वा सापेक्षता 17, अभिजातत्वं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता 18, अतिस्निग्धमधुरत्वं -घृतगुडादिवत् सुखकारित्वम् 19, अपरमर्मवेधित्वं-परमानुद्घाटनस्वरूपत्वम् 20, अर्थधर्माभ्यासानपेतत्वं-अर्थ-धर्मप्रतिबद्धत्वम् 21, उदारत्वम्-अभिधेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा 22, परनिन्दाऽऽत्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव 23, उपगतश्लाघ्यत्वम्उक्तगुणयोगात् प्राप्तश्लाघ्यता 24, अनपनीतत्वम्-कारक काल-वचन-लिङ्गादिव्यत्ययरूपवचनदोषापेतता 25, उत्पादिताच्छिन्नकौतूहलत्वं-स्वविषये श्रोतॄणां जनितमविच्छिन्नं कौतुकं येन तत्तथा तद्भावस्तत्त्वम् 26, अद्भुतत्वम् अनतिविलम्बित्वं च प्रतीतं 27-28, विभ्रमविक्षेप-किलिकिञ्चितादिवियुक्तत्वं-विभ्रमो-वक्तृमनसो भ्रान्तता विक्षेपः तस्यैवाभिधेयार्थं प्रत्यनासक्तता किलिकिञ्चितं- रोषभयाभिलाषादिभावानां युगपदसकृत्करणम्, आदिशब्दान्मनोदोषान्तरपरिग्रहः, तैर्वियुक्तं यत्तथा तद्भावस्तत्त्वम् 29, अनेकजातिसंश्रयाद्विचित्रत्वम्, इह जातयो वर्णनीयवस्तुस्वरूपवर्णनानि 30, आहितविशेषत्वं-वचनान्तरापेक्षया ढौकित१. B राज. वृ. / अपनी० मु. / अनुपनी० खं. // 2. ०ताविच्छि० राज. वृ. प. 12 B पु.प्रे.पार्श्वभागे च // 3. B खं. राज. वृ. 12 / विप्रयु० मु. // 4. B खं. / ०तत्वादि-मु. // 5. 'उत्पादिता श्रोतृजने स्वविषयबहुमानता', इति राज. वृत्तौ / ' 6. 'परिपुष्टार्थाभिधेयता'-इति राज. वृत्तौ // 7. खं. / अपहत०मु.। अपद्रुत०राज.वृ.।। 8. ०नुघट्टन० खं. // 9. ०श्लाघत्वम् B // 10. तैर्विमुक्तं यत्तत्तथा-खं. // .