________________ सूत्र - 19.] श्रीमहावीरप्रभुगुणवर्णनम् 37 पवयणस्स देसए नायगे पतिट्ठावए समणगपती समणगविंदंपरिअट्टए चोत्तीसबुद्धवयणातीसेसपत्ते पणतीससच्च-वयणातिसेसपत्ते अभिष्वङ्गलक्षणं रागश्च-विषयानुरागलक्षणो द्वेषश्च-अनिष्टेऽप्रीतिरूपो मोहश्च अज्ञानरूपो वेदोदयरूपो वा यस्य स तथा / 'निग्गंथस्स पवयणस्स देसए' निर्ग्रन्थस्य-जैनस्य प्रवचनस्य-शासनस्य, देशकः शास्ता नायकः, तस्यैव नेता स्वामीत्यर्थः / 'पइट्ठावए' तस्यैव प्रतिष्ठापकः, तैस्तैरुपायैर्व्यवस्थापकः / 'समणगपती' श्रमणकपतिः, साधुसयाधिपतिः / 'समणग-विंद-परिअट्टए' श्रमणा एव श्रमणकास्तेषां वृन्दस्य परिवर्धको-वृद्धिकारी परिकर्षको वा-अग्रगामी तेन वा पर्यायक:-परिपूर्णो यः स तथा / 'चोत्तीसबुद्धवयणातिसेसपत्ते' चतुस्त्रिंशत् बुद्धानां- जिनानां वयणत्तिवचनप्रमुखाः 'सर्वस्वभाषानुगतं वचनं धर्मावबोधकर'मित्यादिनोक्तस्वरूपा येऽतिशेषाअतिशयास्तान् प्राप्तो यः स तथा / इह च वचनातिशयस्य ग्रहणमत्यन्तोपकारित्वेन प्राधान्यख्यापनार्थम्, अन्यथा देहवैमल्यादयस्ते पठ्यन्ते, यत आह - "देहं विमलसुयंधं आमयपासे य वज्जियं अरुयं / रुहिरं गोक्खीराभं निव्वीसं पंडुरं मंसं // 1 // " इत्यादि / 'पणतीससच्चवयणाइसेसपत्ते' पञ्चत्रिंशत् ये सत्यवचनस्यातिशेषा-अतिशयास्तान् प्राप्तो यः स तथा, ते चामी वचनातिशया:-तद्यथा-संस्कारवत्त्वम् 1 उदात्तत्त्वम् 2 उपचारोपेतत्वं 3 गम्भीरशब्दत्वम् 4 अनुनादित्वं 5 दक्षिणत्वम् 6 उपनीतरागत्वं 7 महार्थत्वम् 8 अव्याहतपौर्वापर्यत्वं 9 शिष्टत्वम् 10 असन्दिग्धत्वम् 11 अपहृतान्योत्तरत्वं 12 हृदयग्राहित्वं 13 देशकालाव्यतीतत्वं 14 तत्त्वानुरूपत्वम् 15 अप्रकीर्णप्रसृतत्वम् 16 अन्योऽन्यप्रगृहीतत्वम् 17 अभिजातत्वम् 18 अतिस्निग्धमधुरत्वम् 19 अपरमर्मवेधित्वम् 20 अर्थधर्माभ्यासानपेतत्वम् 21 उदारत्वं 22 परनिन्दाऽऽत्मोत्कर्षविप्रयुक्तत्वम् 23 उपगतश्लाघ्यत्वम् 1. B खं. / सत्थनायगे-मु. // 2. ०परियट्टए पुप्रे. / 3. B खं. / वेदोदयरूपो-मु. नास्ति / / 4. देहो विमलः सुगन्ध आमय प्रस्वेदवजितः अरुजः / रुधिरं गोक्षीराभं निवित्रं पाण्डुरं मांसम् // 1 // मु.टि. // 5. B खं.। आमयपस्सेय० मु. // 6. अरयं-खं. // 7. पंडरं-खं. // 8. राज. वृ. पत्र 12 / अपहृत्या० खं. / अपहता० मु. // 9. ०लयुतत्वंराज. वृ. 12B | 10. श्लाघत्वम्- B खं. राज. वृ. पत्र 12 B |